SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ ७० ॥ Jain Education भवनेशा व्यन्तराश्व, ज्योतिष्काश्च विमानजाः । देवाश्चतुर्विधा एते कथिता जिनशासने ॥ ८५ ॥ वैमानिका द्विधा प्रोक्ता, ज्योतिष्काः सन्ति पञ्चधा । अष्टधा व्यन्तराः सर्व्वे, दशधा भुवनाधिपाः ॥ ८६॥ सौधम्मैशाननामानौ, सनत्कुमार एव च । माहेन्द्रब्रह्मलोकौ च, लान्तकः शुक्र एव च ॥ ८७ ॥ सहस्रारानतौ चैव, प्राणतश्चारणाच्युतौ । स्वर्गाः प्रोक्ता द्वादशैते, नव ग्रैवेयका अमी ॥ ८८ ॥ सद्दर्शनं सुप्रबन्धं, मनोरमं सर्व्वभद्रसुविशाले" । सुमनस्यं सौमनसँ प्रीतिर्कमादिमतं नवमम् ८९ विजयं वैजयन्तं च, जयन्तं चापराजितम् । सर्वार्थसिद्धिरेतानि पञ्चैवानुत्तराणि च ॥ ४९० ॥ मुक्तिक्षेत्रं ततश्चोर्ध्वमनन्तसुखभाजनम् । निश्चलं च निराबाधं, जरामरणवर्जितम् ॥ ९९ ॥ निशादिनविभागोऽपि न तत्र त्रिदशालये । रत्नालोकः स्फुरत्युच्चैः सततं नेत्रसौख्यदः ॥ ९२ ॥ वर्षातपतुषारादिसमयैः परिवर्जितः । सुखदः सर्व्वदा सौम्यस्तत्र कालः प्रवर्तते ॥ ९३ ॥ उत्पातभयसन्तापचौरादिभङ्गविड्वराः । नहि स्वप्नेऽपि दृश्यन्ते, क्षुद्रसत्त्वाश्च दुर्जनाः ॥ ९४ ॥ चन्द्रकान्तशिलाबद्धाः, प्रवालदलदन्तुराः । वज्रेन्द्रनीलनिर्मला (नैर्मल्या), विचित्रास्तत्र भूमयः ॥९५॥ For Private & Personal Use Only महा. ॥ ७० ॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy