SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥१९॥ तस्मिन्नवसरे श्रेष्ठी, कुर्खन्नस्ति जिनार्चनम् । पृष्टं तेन गृहे कोऽस्ति?, लक्ष्मीचन्द्रोऽब्रवीत्ततः ॥ ६६ ॥ महा. अहमस्मि गृहे तात!, कार्यमादिश्यतां मम । सोऽवादीद्वत्स ! पृच्छ त्वं, कियन्तः सन्ति साधवः ॥६७nal तत्पृष्टे मुनिभिः प्रोक्तं, मुनिपञ्चशतैर्वृताः । श्रीधर्मघोषसूरीन्द्राः, सन्तत्येह समागताः ॥ ६८ ॥ तेषां शिष्या वयं केचिद्गोचर्यायां प्रवर्तिताः। श्रुत्वेति श्रेष्ठयऽवग् भाग्यादुत्सवे गुरुरागतः ॥ ६९ ॥ यतःपहसन्तगिलाणेसुं, पारणए तह य लोयकरणे या उत्तरपारणगंमि य, दाणञ्च वहृफलं होई ॥ ४७० ॥ श्रेष्ठी पुनरुवाचैवं, लक्ष्मीचन्द्रसुतं प्रति । मुनिभ्यो देहि मद्वाचा, वत्स! षोडश मोदकान् ॥ ७१ ॥ सुतेनाचिन्ति दक्षेण, साधवः सन्त्यनेकशः । संख्यामात्रेण दत्तेन, किं फलं चाग्रतो भवेत् ? ॥ ७२ ॥el मद्विवाहे कृताः सन्ति, मोदका मानवर्जिताः। अत एवैष मे लाभो, मुनिभ्यो दीयते बहु ॥ ७३ ॥ अत्यन्तहर्षतस्तेन, भृत्वा स्थालमसङ्ख्यया।साधुभ्यो मोदका दत्ता, यावत्सुते(सृतेति) भाषणम्॥ ७४॥ गतेषु साधुषु श्रेष्ठी, सुतं पप्रच्छ मोदकाः । षोडशापि त्वया दत्ता, दत्ताः पुत्रेण भाषितम् ॥ ७५॥ Jain Education Inter For Private Personal Use Only -plainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy