SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ॥ ६८ ॥ Jain Education I सम्यक् सर्वज्ञधर्मं स चकार प्रियया सह । पौषधं देवपूजां च, संविभागं मुनेर्व्यधात् ॥ ४४ ॥ संविभागं कदा चक्रे, पञ्चातिचारसंयुतम् । कदाचित् प्रासुकं वस्तु, सचिते क्षिपति स्म सः ॥ ४५ ॥ पिधत्ते वा सचित्तेन, साधुदानरुचिं विना । कालातिक्रमणं कृत्वा, साधूनाह्वयति स्म सः ॥ ४६ ॥ ऊचे वस्तु परस्यैतत् कल्पते यदि गृह्यताम् । कदाचित्मत्सरं चक्रे, पञ्चातिचारका अमी ॥ ४७ ॥ कुर्व्वतः सर्व्वदा धर्मं, तस्य कालो ययौ कियान् । एकदा कोऽपि सार्थेशोऽन्यदेशे गन्तुमुद्यतः ॥४८॥ ललितानं सुहृत् कोऽपि, प्रोचे सार्थे त्वमेहि भोः ! । सर्व्वसामग्रीं शकटवृषभादेश्व मेलय ॥ ४९ ॥ स यावत्प्रगुणीभूतः, स तावत्सार्थपोऽचलत् । वस्तुनः शकटान् भृत्वा पृष्ठेऽसौ चलितो द्रुतम् ॥४५० ॥ सुप्रदेशे स्थितौ रात्रौ निशायां श्रावकाग्रणीः । निस्सञ्चालं समुत्थाय, प्रतिक्रमणमातनोत् ॥ ५१ ॥ नमस्कारं स्मरन्नास्ति, तावत्सव्र्वेऽपि सार्थिकाः । चल्यतां चल्यतामेवं ब्रुवाणा उत्थिता द्रुतम् ॥ ५२ ॥ शकटान् योजयन्तस्ते, ललिताङ्गेन वारिताः । स्वस्थाः स्थ भो घना रात्रिरस्ति सामायिकं मम ॥५३॥ ऊचुस्ते स्थितिवेला न, प्रयाणं दूरतो भवेत् । क्षुततृषाभ्यां बलीवर्दा, म्रियन्तेऽप्यातपेन च ॥५४॥ For Private & Personal Use Only ♦♦♦♦000000000000000 महा. ॥ ६८ ॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy