SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Jain Educatio अणुव्रत महाव्रतैर्व्यपगतातिचारैर्युताः, सबालतपसोऽथवा दधुरकामतो निर्जराम् । यके च जिनवन्दनार्श्वनपराश्च सम्यग्दृशः, श्रयन्ति त इहाङ्गिनः ( सुरभवायुरेवंगुणाः) सुरायुरेवं गुणाः ॥ ३६ ॥ अर्हत्सिद्धश्रुताचार्यसङ्घादीनां सुभक्तितः । शुक्लध्यानाञ्च गच्छन्ति मानवाः पञ्चमीं गतिम् ॥ ३७ ॥ काव्यम् - भ्रमतु वसुधां पातालं वा विशत्वविशङ्कितः, श्रयतु शिखरं शैलस्यापि प्रयातु दिशोदिशम् । विहरतु पुमान् द्वीपाद्वीपं विलङ्घय पयोनिधिं, न फलति पुनः पापारम्भे कदापि समीहितम् ३८ ज्ञात्वैवं लघुकर्माणो, रौद्रार्त्तध्यानवर्जनात् । धर्मे चित्तं स्थिरं कुर्युर्वाञ्छितार्थस्य सिद्धये ॥ ३९ ॥ अथोचे नृपतिः पूज्य ! त्वं प्रसादं विधाय मे । षोडशद्रव्यकोट्यादेदेहि प्रश्नस्य चोत्तरम् ॥ ४४० ॥ गुरुरुचे कलिङ्गाख्ये, देशे कनकपत्तने । लक्ष्मीवान् ललिताङ्गनेऽभूत्, तस्य लक्ष्मीवती प्रिया ॥ ४१ ॥ दक्षा तुष्टा प्रियालापा, पतिचित्तानुवर्त्तिनी । कालौचित्याद्वययकरी, या सा लक्ष्मीरिवापरा ॥ ४२ ॥ चातुर्यमार्जवं शीलं रूपलावण्यसंपदः । सुवाक्यमल्पभाषित्वं, यासां लास्तीर्थभूमयः ॥ ४३ ॥ ational For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy