________________
यतः-यद्वजमयदेहास्ते, शलाकापुरुषा अपि । न मुच्यन्ते विना भोग, स्वनिकाचितकर्मणः ॥ १७ ॥ मयोक्तं देवि! मचित्ते, सन्तोषः कर्मनिश्चयात् ।अस्त्येव नास्ति च भ्रान्तिः, शृणु वाक्यमिदं पुनः॥१८॥ मत्तः पश्चात्तवार्ची कः करिष्यति सुतं विना? । पुनर्मेऽस्ति वरा विद्या, सा विच्छेदं हि यास्यति ॥१९॥ स एव मे विषादोऽस्ति, तेनैवं याच्यते सुतः । देव्यूचे शृणु सत्येन, नास्ति पुत्रस्तवाङ्गजः ॥ ४२० ॥ पालकस्ते सुतो भावी, घनसाराभिधो वणिक् । एषोऽद्यदिवसाद् षड्भिर्मासैरत्र समेष्यति ॥ २१ ॥ स श्रेष्ठी कमलपुरवास्तव्यो भन्नपोतकः । तीरं नवदिनैः प्राप्त, आनेतव्यस्त्वया गृहे ॥ २२ ॥ स ग्रहीष्यति ते विद्या, त्वत्पुत्री परिणेष्यति । इत्युक्त्वा सा गता देवी, ततस्त्वं मिलितो मम ॥ २३ ॥ तेनाहं तव वात्सल्यं, कुइँ त्वं मम पुत्रवत् । ततो मह्यं ददौ विप्रः, सर्वविद्यां च नन्दिनीम् ॥ २४ ॥ कियत्यपि गते काले, गतः स्वर्ग स वाडवः । द्विजपुत्र्या युतस्तत्र, स्थितोऽहं मोहयोगतः ॥ २५ ॥ भुजानस्याथ भोगान्मे, सुतोऽभूद्धनदाभिधः। सोऽप्यष्टवार्षिको जातः, सर्वविद्यां पपाठ च ॥२६॥ गृहभारं समारोप्य, नन्दनेऽथ मया व्रतम् । सिंहदत्तगुरोः पार्थे, गृहीतं भार्यया सह ॥ २७ ॥
Jain Education in
For Private
Personal Use Only
Nainelibrary.org