SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रुत्वा दुर्गकदृष्टान्तं, ज्ञात्वा धर्मफलं त्विह । उद्यमो धर्मकार्येषु, कर्त्तव्यो भावतो बुधैः ॥ ९ काव्यम्-भक्ति रिगुणालये जिनपतौ रक्तिस्तदुक्तागमे, सक्तिः सद्गुरुपर्युपासनविधौ मैत्री परप्राणिषु । . सद्दाने च मतिर्गुणार्जनरतिः शिष्टैः सदा सङ्गतिः, सर्वस्योपकृतिः कुकर्मविरतिः कार्या बुधैः सर्वदा ॥ ९९ ॥ धर्मोपदेशनाप्रान्ते, राज्ञा पृष्टं प्रभो! वद । धर्मदत्तोद्यमात्स्वर्णपुरुषो मेऽभवत्कथम् ? ॥ ४०० ॥ कोटयः षोडश द्रव्यमेतस्य नाधिकं कथम् ? । कथ्यतामत्र यो हेतुः, सन्देहो विद्यते महान् ॥१॥ इत्थं पृष्टो गुरुावत्, किञ्चिद्वदति तावता । एका मर्कटिका वृक्षादुत्तीर्य परितो गुरुम् ॥२॥ भूयो भूयोऽपि वभ्राम, ननर्त्त च सुहर्षतः। तां दृष्ट्वा विस्मयाद्राज्ञा, पुनः पृष्टो मुनीश्वरः॥३॥ पूर्वप्रश्नं प्रभो ! पश्चात, कथनीयं वदाधुना। भवन्तं परितो हर्षात्कुतो नृत्यति मर्कटी ? ॥ ४ ॥ गुरुराह महासत्त्व ! विषमा भवितव्यता । न शक्यते कथयितुं, विषमा कर्मणां गतिः॥५॥ Jain Educatio nal For Private Personal Use Only rww.ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy