________________
॥६५॥
धर्म. जिनपूजां करोति स्म, दानं दत्ते स्म भावतः । गृहकर्माणि सर्वाणि, यश्चके कृपयाऽन्वितः ॥ ८८ ॥ महा.
अन्यदा व्रजतो मार्गे, तस्य कुष्ठी नरोऽमिलत् । तमालोक्य कृता तेन, दुगुञ्छा तस्य निन्दया ॥८९॥ | एकदा स्वकुटुम्बं च, प्रलम्बं वीक्ष्य विक्रमः । मदं चित्ते चकारैवमहो मे विपुलं कुलम् ॥ ३९० ॥ यस्य कस्य कृतो गर्वस्तत्सर्वं हीनमाप्यते । तस्माद्विवेकिना त्याज्या, मदा अष्टावपि ध्रुवम् ॥९१॥ यतः-जातिलाभकुलेश्वर्यवलरूपतपःश्रुतैः । कुर्वन्मदं पुनस्तानि, हीनानि लभते जनः ।। ९२॥ नालोचना कृता तेन, जुगुप्सामदकर्मणः । स मृत्वा सुन्दरसुतो, नाम्ना दुर्गक इत्यभूत् ॥ ९३ ॥ गर्वतः कुलनाशोऽभूत्, दुःख्यभूकुष्ठिनिन्दया । कुलगर्वान्नीचकुलं, लभते हि मरीचिवत् ॥ ९४॥ प्राग्भवे यत्कृतं पुण्यं, भवे चास्मिन् विशेषतः। तेन पुण्येन राज्याधं, लेभे कन्यायुगं त्वसौ ॥ ९५॥el इति श्रुत्वा प्रबुद्धोऽथ, जामात्रा सह भूपतिः । ताभ्यां धर्म विधायान्तेऽनशनं जगृहे मुदा ॥ ९६ ॥ ॥५॥ तौ स्वग्र्गेऽथ समुत्पन्नो, ततश्च्युत्वा तु मानुषम् | भवं प्राप्य गृहीत्वा च, संयम जग्मतुः शिवम् ॥१७॥
इति निन्दायां गर्वे च दुर्गककथा.
Jain Education
a
l
For Private
Personal Use Only
O
w.jainelibrary.org