________________
राजीवचनतो राजा, सन्मान्य श्वशुरं निजम् । दत्त्वा वाहनदेशादि, स्थापितः स स्वसंनिधौ ॥ ७९ ॥ अथ ये रिपवः सर्वे, पुरीरत्नावतीस्थिताः। तत्र सैन्यं निजं प्रेष्य, तेऽपि निष्काशिताः क्षणात् ॥३८०॥ भूपश्चा(पेना)मरकेतोश्च, सुरकेतुः सुतस्ततः । प्रेष्य रत्नावतीराज्ये, स्थापितः सैन्यसंयुतः ॥ ८१॥ अथ सर्वेऽपि ते जाता, जिनधर्मपरायणाः । दृष्ट्वा पुण्यप्रभावञ्च, धम्मिष्ठा यमुनाऽभवत् ॥ २॥ यमुनायां सुतो राज्ञो, बभूव मदनाभिधः। राज्ये संस्थाप्य तं राजा, वृद्धत्वे व्रतमग्रहीत् ॥ ८३ ॥ चिरं चारित्रमाराध्य, राजर्षिर्यमुनायुतः। प्राप कर्मक्षये मोक्षमनन्तसुरखमव्ययम् ॥ ८४ ॥ यथा यमुनया धर्मफलं प्राप्तमिहैव हि । धर्मस्तथैव सर्वेषां, फलत्यत्र परत्र च ॥८६॥
इति श्रीयमुनाकथा धर्मविषये ॥ ततः-देशनान्ते नराधीशः, पप्रच्छ मुनिपुङ्गवम् | कथं सौभाग्यकलशः, पूर्व निःस्वः सुखीभवत् ?
(स्वश्च सुख्यभूत् )॥८६॥ सूरिरूचे कुम्भपुरे, वाणिजो विक्रमोऽभवत् । धनाढ्यो धर्मवान्नित्यं, कृत्यं धर्मस्य योऽकरोत्॥७॥
Jain Education
a
l
For Private & Personal Use Only
O
ww.jainelibrary.org