SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ धर्म. यक्षो जगाद हे भद्र!, शृणु त्वं कथयामि यत् । रत्नपुरीस्वामी नृपो, ह्यस्ति मकरकेतन ॥ ६८ ॥ ॥६तस्य रत्नावतीपल्यां, नन्दिनीसप्तकोपरि । प्रसूता चाष्टमी पुत्री, क्षिता पेटान्तरेऽथ सा॥ ६९ ॥ वाहिता यमुनानद्यां, सप्तयामैरिहागता । गृहीता सुलसेनाथ, तद्गृहे साऽस्ति पद्मिनी ॥ ३७॥ सैषा ते भाविनी भार्या, राज्याभ्युदयकारिणी । तव पुण्यप्रभावेण, मया दत्ता महाशय ! ॥ ७१ ॥ इति श्रुत्वा गतो गेहे, हर्षान्मकरकेतनः। आनाय्य परिणीता सा, विधिना पितुराज्ञया ॥ ७२ ॥ कुमारः सोऽथ कालेन, जातो राज्यधुरन्धरः । यमुना पट्टराज्ञी च, सञ्जाता पुण्ययोगतः ॥ ७३ ॥ पुरमध्ये श्रेष्ठिपदं, सुलसाय ददौ नृपः । सुखेन गमयामास, कालं राजादयस्त्रयः॥ ७४ ॥ पद्मिनीप्रमदाप्राप्त्या, पूर्वपुण्याच्च भूपतिः। प्रतापाकान्तभूखण्डः, स त्रिखण्डाधिपोऽभवत् ॥ ७५॥ साधिताः सकला भृपाः, कृता नमितकन्धराः । राज्ञा न्यायैकधर्मेण, प्रजानां च सुखं कृतम् ॥ ७६ ॥ अथान्यदा कियत्कालेऽमरकेतुनरेशितुः । गृहीतं वैरिणा सर्व, राज्यं देशधनान्वितम् ॥ ७७ ॥ सकुटुम्बोऽथ नष्वा स, राजा तत्रागतः स्वयम् । यत्रास्ति यमुनाभर्त्ता, राजा मकरकेतनः ॥७॥ ॥६॥ Jain Education For Private Personel Use Only VS.jainelibrary.org PO
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy