________________
गुरुणा देशनाऽऽरब्धा, पुण्यपीयूषवाहिनी । भ्रमतां च भवारण्ये, तृष्णाच्छेदकरी नृणाम् ॥ ४६॥ धर्मः श्रुतोऽपि दृष्टोऽपि, कृतोऽपि कथितोऽथवा । उन्मोदितोऽथवा राजन्!, पुनात्येवाङ्गिनो भृशम् ४७/ यात्रिलोकेऽपि दृश्यन्ते, प्राप्तयः सुखदुःखयोः। जानीहि ताः फलं भद्र!, प्रकटं पुण्यपापयोः ॥ ४८॥ वशीभवन्ति विश्वानि, प्रलीयन्ते च शत्रवः। संपदश्च विजृम्भन्ते, पुण्यपण्यानु (पुण्यानु) भावतः॥४९॥ यथा पूर्व भूपपुत्र्या, धर्म आराधितो महान् । इहैव फलितः सद्यः, श्रूयतां तन्निदर्शनम् ॥ ३५० ॥ तथाच-यमुनावाहिनीतीरे, पुरी रत्नावती वरा । भूपोऽत्रामरकेतुस्तु, जज्ञे रत्नवती प्रिया ॥ ५१ ॥ जातास्तस्य सुताः सप्त, बभूव पुनरष्टमी । सा मञ्जूषाऽन्तरे क्षिप्ता, जातमात्रैव खेदतः॥ ५२ ॥ मुक्ता च यमुनानद्यां, सवस्त्रा तु तदम्बया । सप्तयामैः समायाता, ततः पद्मपुरे पुरे ॥ ५३॥ सुलसोऽस्ति वणिक्तत्र, सप्तपुत्रीसुदुःखितः । दृष्टा सा तेन मञ्जूषा, गच्छन्ती यमुनाजले ॥ ५४ ॥ नद्यां प्रविश्य दक्षेण, पेटा निष्काशिता जलात् । गृहीत्वा चागमद् गेहे, पेटिकोद्घाटिता ततः ॥५५॥ स तामालोकयद्यावत्नावदेक्षत बालिकाम् । ततोऽजल्पत्करौ घर्षन्, हा हा दैवेन किं कृतम् ? ॥ १६ ॥
॥६॥
Jain Education
anal
For Private & Personal Use Only
A
w
.jainelibrary.org