SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥६२॥ Jain Education विमृश्य सचिवः प्रोचे, विधिनाऽयं विवाहितः । भवितव्यं भवत्येव, नाभाव्यं भवति क्वचित् ॥ २८ ॥ यत्पूर्वोपार्जितं कर्म्म, शुभं भवति वाऽशुभम् । विपाको जायते तस्य, जिनेन्द्रैरिति भाषितम् ॥ २९ ॥ काव्यम् - नैवाकृतिः फलति नैव कुलं न शीलं विद्याऽपि नैव नच जन्मकृता च सेवा । भाग्यानि पूर्वतपसा किल सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ३३० ॥ सविस्तरं नृपेणास्य, विवाहः कन्ययोर्द्वयोः । कृतो दत्तश्च जामात्रे, राज्यार्धं करमोचने ॥ ३१ ॥ कृतं सौभाग्यकलश, इतिनामास्य भूभुजा । इहलोके सुखीजातः कृतपुण्यप्रभावतः ॥ ३२ ॥ सम्यक् संसेवितो धर्मों, जिनोक्तः करुणान्वितः । इहलोके परत्रापि सर्व्वथा फलदायकः ॥ ३३ ॥ अन्यदा नृपतिः प्रोचे, हर्षाजामातरं प्रति । शुभास्ते शकुना भद्र ! दृश्यन्ते फलितास्तव ॥ ३४ ॥ सौभाग्यकलशोऽप्यूचे, स्वामिन्! किं शकुनैर्भवेत् ? । एवं यतो मया धम्मों, जिनेन्द्रोक्तः कृतो भृशम् ॥३५॥ जिनेन्द्रपूजनं नित्यं कृतं दम्भविवर्जितम् । साधूनां संविभागश्च यथाशक्ति कृतो मया ॥ ३६ ॥ तैनात्र फलितं पुण्यं, प्रत्यक्षं मम भूपते ! । सिद्धस्य वचनं सत्यं, जातं पुण्यानुभावतः ॥ ३७ ॥ For Private & Personal Use Only महा. ॥६२॥ w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy