SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Jain Education स्वामिन्! वेला कथं लग्ना? शरीरे कुशलं तव ? | दुर्गकः स्माह भो भद्राः !, परग्रामादिहागतः ॥१७॥ परग्रामागमं श्रुत्वा, ज्ञात्वा स्वरविपर्ययम् । शङ्कया कृतदीपेन, साऽपश्यत्तं नरं परम् ॥ १८ ॥ पश्चात्तापपरा जाता, तं निःस्वं वीक्ष्य भूपजा । दासीना कथितं चाप्यधमोऽयं मुच्यतामधः ॥ १९ ॥ | उत्तारितो गवाक्षात् सः तस्मिन् शून्यापणे गतः । सुप्तः शेषनिशायाञ्च, कौतुकं चिन्तयन् हृदि ॥३२०॥ अथ जाते प्रभाते स, सचिवः सुमतिः स्वयम् । विलोकनाय जामातुर्निर्गतो नगरान्तरे ॥ २१ ॥ दृष्टः शून्यापणे सुप्तः, स वरः कुङ्कुमार्चितः । विवाहवेषसंयुक्तः, सुशृङ्गारश्च मन्त्रिणा ॥ २२ ॥ उत्थाप्यासी निजं गेहमानीतो बहुमानतः । राज्ञाऽपि तद्दिने पुत्र्या, वृत्तान्तो ज्ञात आदितः ॥ २३ ॥ आहूय सचिवं चोक्तत्वा, पृत्रीवृत्तं नृपोऽवदत् । एकमेव वरं विश्वे, वृणुते कुलबालिका ॥ २४ ॥ स्वेच्छया यो वृतः पुत्र्या, विलोक्यानय तं वरम् । राज्ञोऽग्रे मन्त्रिणाऽप्युक्तं, पुत्रीविवाहकौतुकम् ॥२५॥ दुर्गकोऽसौ नृपस्याग्रे, समानीतोऽथ मन्त्रिणा । दृष्ट्वा तं चोपलक्ष्योचे, भूपो भद्र !, त्वमागतः ॥ २६ ॥ त्वं मुद्द्रविक्रयी किं न ? स एवाहं नरोऽवदत् । शकुनाद्यं नृपेणास्य, स्वरूपं मन्त्रिणाकथि ॥ २७ ॥ tional For Private & Personal Use Only w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy