________________
धर्म. इतिचिन्तापरा शीघ्रं, गता सा निजसद्मनि । विना नीरं यथा मीनो, न रतिं प्राप सा निशि ॥६॥ ॥६१॥ जनन्याः कथितः सर्वः, स वृत्तान्तस्तया तदा । तयाऽपि भाषितं पुत्र्याः, स्वरूपं भर्तुरग्रतः ॥ ७ ॥
इतश्च तत्पुरे राजा, श्रीविक्रमधनोऽभवत् । अनङ्गकेलिसदनमनङ्गश्रीः सुताऽस्य च ॥८॥ तस्मिन्नेव दिने कस्यचित्सामन्तसुतस्य च । विवाहविषये च्छन्नः, सङ्केतः कारितस्तया ॥ ९ ॥ रात्रौ गृहोर्श्वभूमौ सा, दीपं कृत्वा तमोभरे । गवाक्षे मञ्चिकां मुक्त्वा, व्यलोकयद्वरागमम् ॥ ३१० ॥ गतायां मन्त्रिनन्दिन्यां, दुर्गकोऽचिन्तयत्तदा । विज्ञोक्तं मिलितं किञ्चित्सा वधूः क्व गता परम् ? ॥११॥ उत्थायासौ ततो रात्रौ, तां द्रष्टुमगमत्पथि । उद्योते तद्गवाक्षाधो, दृष्ट्वा स रज्जुमश्चिकाम् ॥ १२ ॥ विनोदेनोपविष्टोऽसौ, मञ्चकोपरि दुर्गकः । रज्जुचालनतो ज्ञातः, कन्यया वर आगतः ॥ १३ ॥ आकृष्य मञ्चिकामूवं, नीतो दासीभिराशु सः। अस्तङ्गन्तस्तदा दैवाद्दीपश्चीवरवायुना ॥ १४ ॥ कृत्वा विवाहसामग्री, सारशृङ्गारपूर्वकम् । उत्सुकत्वादन्धकारे, परिणीतः स कन्यया ॥ १५॥ ततोऽनङ्गश्रिया जाते, विवाहे हर्षपूर्णया। दक्षाभिर्निजचेटीभिरेवमालापितः पतिः ॥ १६ ॥
For Private 3 Personal Use Only