SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सा च यौवनसंपूर्णा, सञ्जाता जनमोहिनी । इतश्चास्ति पुरे तस्मिन्निभ्यसूनुः सुदर्शनः ॥ ९५ ॥ सद्रूपे तस्य सा रक्ता, प्रच्छन्नं पाणिपीडने। दूत्या मुखेन विज्ञाप्य, सङ्केतस्तहिने कृतः ॥ ९६ ॥ ततः सामग्रीकां सर्वां, गृहीत्वा सा महानिशि। ययौ शून्यापणे तत्र, यत्र सुप्तोऽस्ति दुर्गकः ॥९७ ॥ तत्र सङ्केतवेलायां, नागतः स सुदर्शनः । दुर्गकाङ्गेऽन्धकारेऽथ, लग्नस्तस्याः करस्तदा ॥ ९८ ॥ तया ज्ञातं वरो ह्येष, तमुत्थाप्य ततोऽस्य च । परिधाप्य वरं वस्त्रं, सा शृङ्गारमचीकरत् ॥ ९९ ॥ हाराधहारकेयूरकुण्डलादीनि तत्तनौ । धृत्वा दास्या तयोः शीघ्रं, कृतः पाणिग्रहोत्सवः ॥ ३०॥ स्वदासी प्रति साऽप्यूचे, पूर्णो मेऽद्य मनोरथः । दूती स्माह कृतं भव्यं, प्रमाणं ह्यग्रतो विधिः ॥१॥ आलापयद्यदा सा तं, प्रोचेऽसौ दुर्गकस्तदा । अनीदृशस्वरं श्रुत्वा, ज्ञातं नासौ सुदर्शनः ॥२॥ मन्त्रिपुत्री पुनः प्रोचे, कोऽसि त्वं वद सत्वरम् ? । सोऽवादीदुर्गकोऽहं रे, साऽथोद्योतमकारयत् ॥३॥ प्रकाशे स तया दृष्टो, दरिद्रो दुर्गकोऽकृशः। विलक्षाऽभूत्तदा मन्त्रिपुत्री सुभगसुन्दरी ॥ ४॥ विधुरा विललापोच्चैर्दा दग्धाऽहं च वञ्चिता । परिणीतो दरिद्रोऽसौ, नागात्सङ्केतितो नरः ॥५॥ Jain Education anal For Private & Personel Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy