________________
॥६
॥
प्रशस्ताः शकुना दृष्टाः, दुर्गाशब्दानुभावतः । अद्यैव कन्यकायुग्मयुक्तं राज्यमवाप्स्यसि ॥ ८४॥ इत्थं श्रुत्वा प्रमोदेन, राजन् ! नृत्यं करोम्यहम् । श्रुतायां लाभवा यां, हर्षः कस्य न जायते ? ॥८५॥ इति श्रुत्वा स भूमीभृत्, तं चालोक्य व्यचिन्तयत् । अहो अनीदृशो निःस्वो, विरूपो दृश्यते नरः॥८६॥ अद्य वार्ता श्रुताऽवश्यं, निन्द्यस्य वणिजोऽपि च । जातेच्छा राजकन्यानामहो लोभविजृम्भितम् ८७ चिन्तयित्वेति भूपालो, गूढकोपो गृहं ययौ । पुरे चाघोषयच्छीघ्रं, सर्वत्रैवेति डिण्डिमम्- ॥ ८॥ अद्यघस्रात्पञ्चदिनी, मुगान् बाह्यागतान्पुरे । ग्रहीष्यति हि यस्तस्य, राजदण्डो भविष्यति ॥८९॥ दुर्गकोऽप्यथ सोत्साहो, गृहीत्वा मुद्पोट्टलम् । आगतो नगरीमध्ये, बभ्राम च चतुष्पथे ॥ २९० ॥ हट्टेषु दर्शिता मुद्गवर्णिका तु नृपाज्ञया । मुद्गान् कोऽपि न गृह्णाति, न लोप्यं नृपशासनम् ॥ ९१ ॥ चतुष्पथेषु सर्वेषु, भ्रान्त्वा भ्रान्त्वाऽखिलं दिनम् । स खिन्नः खेदसंयुक्तः, सुप्तःशून्यापणे क्वचित्॥९२॥ non उच्छीर्षे पुटलं दत्वा, मुक्त्वा निःश्वासमुच्चकैः। किञ्चिन्निद्रो निराशश्च, निशां निर्गमयत्यसौ ॥१३॥ इतश्चास्ति पुरे तस्मिन, सुमतिः सचिवोऽस्य च । सौभाग्यसुन्दरी भार्या, सुता सुभगसुन्दरी ॥९४॥
Jain Education 1.
na
For Private Personel Use Only
Naljainelibrary.org