SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पृष्टे दुर्गाविचारेऽथ, स सिद्धः पुनरब्रवीत् । दुर्गा वामप्रयाणे तु, शुभा सौख्यधनप्रदा ॥ ७४॥ सुस्थानस्था विशेषेण, राज्यादिसुखदायिका । एवं निशम्य चोत्यायोत्साहान्ननः दुर्गकः ॥ ७५॥ | स्मित्वा सिद्धेन पृष्टोऽसौ, कथं नृत्यसि ? भो नरः!। उवाच दुर्गकः स्वामिन् !, शृणु स्वोत्कर्षकारणम्७६ ।। प्रोक्ताः प्रशस्ताः शकुनास्त्वया मे, ममाभवंस्ते पुनरीदृशाऽभूत्।। दुर्गाप्यतोऽहं प्रकरोमि नृत्यं, भव्यं फलं प्राप्स्यति दुर्गको यत् ॥ ७७ ॥ विज्ञोऽपि पुनरप्यूचे, दुर्गाशकुनभावतः । कन्यायुग्मं च सद्राज्यं, त्वमद्य प्राप्स्यसे ध्रुवम् ॥ ७८॥ एवं श्रुत्वाऽग्रतो गत्वा, पुनर्नन” दुर्गकः । शुभं श्रुत्वा नराः क्षीणाः, प्रायो हर्षन्ति सर्वतः ॥ ७९ ॥ इत्थं विकलवत्तस्मिन्नृत्यं कुर्वति हर्षतः। तत्रागाद्विक्रमधनो, राजाऽकस्माच्चमूवृतः ॥ २८० ॥ तं नृत्यन्तं नरं वीक्ष्य, हेतुं पप्रच्छ भूपतिः । स ऊचे शृणु भूमीश !, मम नृत्यस्य कारणम् ॥ ८१ ॥ मुद्गपोट्टलमुत्पाव्य, मार्गेऽद्यागच्छतो मम । सजाताः शकुनाः सौम्याः, सद्भाग्योदययोगतः ॥८२॥ विश्रान्तोऽहं वने खिन्नो, दृष्टस्तत्र निमित्तवित् । शकुनार्थे मया पृष्टे, तेनेत्थं कथितं मम-॥ ८३ ॥ Jain Education Inte1 For Private Personel Use Only Minelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy