SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ॥५९॥ Jain Education In I आवश्यकं द्विसन्ध्यं स चकार शुभभावतः । परमेष्ठिनमस्कारं, जजाप स्थिरमानसे ॥ ६६ ॥ संविभागञ्च साधूनां स्वल्पात्स्वल्पतरं व्यधात् । निःस्वत्वसमये ह्यल्पं, कृतं पुण्यं घनं भवेत् ॥ ६७ ॥ सारं श्रीजिनधर्मस्य, दयालुर्विदधे दयाम् । सामग्रीं प्राप्य धर्मस्य, वेलां शून्यां मुमोच न ॥ ६८ ॥ कियत्यपि गते काले, सोऽन्येद्युर्मुद्गपोट्टलम् । नीत्वा बलपुरे गच्छन्, मार्गे तस्थौ क्षणं वने ॥ ६९ ॥ तत्रैकशाखिनोऽधस्तान्निविष्टं धृतपुस्तकम् । दृष्ट्वैकं मानवं दक्षं, तं पप्रच्छेति दुर्गकः ॥ २७० ॥ भो विद्वन्पुस्तके तेऽस्ति, किं शास्त्रं ? वद सूनृतम् । शास्त्रं शकुनसत्कं मे, पुस्तकेऽस्तीति सोऽवदत् ॥७१॥ कीदृशाः शकुनास्तेषां किं फलं ? वद सुन्दर ! । दुर्गकेणेति पृष्टः सोऽप्याख्यत् शकुनजं फलम् ॥ ७२ ॥ यतः - कन्यागोशङ्खमेरीदधिफलकुसुमं पावको दीप्यमानो, नागेन्द्रोऽश्वो रथो वा नृपतिरभिमुखः पूर्णकुम्भो ध्वजो वा । उत्क्षिप्ता चैव भूमिर्जलचरयुगलं सिद्धमन्नं शतायुवैश्यास्त्रीमद्यमांसं हितमपि गदितं मङ्गलं प्रस्थितानाम् ॥ ७३ ॥ For Private & Personal Use Only महा ॥५९॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy