SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ बालोऽसौ पालयाञ्चक्रे, सत्कृपैः प्रातिवेश्मिकैः । वृद्धिं क्रमेण संप्राप, दुर्गको दैवयोगतः ॥ ५५ ॥ अरक्षरक्षको दैवः, प्रायेण स्थितिरीदृशी । विधिविनष्टकर्ता च, सुरक्षं तद्विनश्यति ॥ ५६ ॥ गुणोऽपि दोषतां यान्ति, वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् , दोषोऽपि हि गुणायते ॥ ५७ ॥ विमुक्तबालभावोऽसौ, सर्वशास्त्राण्यपीपठत् । कलासु कुशलो जज्ञे, कर्मणा निर्धनः परम् ॥ ५८॥ विमुच्य तत्पुरं शालिग्रामके पार्श्ववर्तिनि । गतस्तत्र करोत्येष, व्यवसायं नवं नवम् ॥ ५९॥ यद्यत्क्रयाणकं सोऽथ, गृह्णीयात्तस्य तस्य न । लाभः स्वल्पोऽपि हानिस्तु, घना भवति कर्मतः ॥२६०॥ अथैकस्मिन् दिने तस्य, मस्तके न्यस्तपुट्टलम् । बजतो मिलितौ मार्गे, द्वौ मुनीशौ मनोहरौ॥ ६१॥ सत्कर्मपरिणामेन, तेनाप्ता साधुसङ्गतिः। अग्रे हि यादृशी सिद्धिर्योगो भवति तादृशः ॥ ६२॥ वन्दित्वा मुनियुग्मं तत्, धर्म पप्रच्छ दुर्गकः । धर्मोपदेश एकेन, साधुना दत्त ईदृशः ॥ ६३ ॥ यतः-जिनभक्तिर्गुरुनमनं, दानं शीलं तपः श्रुतं ध्यानम् । संवेगश्च प्रत्यहमिति कार्य श्रावकैः सद्भिः ६४ ततो गुरूपदेशात्स, नित्यं याति जिनालये। त्रिसन्ध्यं पूजयामास, जिनान विविधवस्तुभिः ॥६५॥ Jain Education For Private Personel Use Only Olw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy