________________
धर्म. गाथा-जो सिंचिऊण विसपायपि पत्थेइ तत्य अमयरसं । जइ पाविज तओ तं,ता मुस्तफलं अपत्तेवि३५/० १७ चैत्यानां यत्समारम्भे, साधूनां भेषजक्रमे । किञ्चिदेकगुणं पापं, पुण्यं कोटिगुणं भवेत् ॥ ३६॥
दातुर्दापयितुश्चैव, अनुमन्तुश्च भावतः । वस्तुनः पात्रदत्तस्य, त्रयाणां सदृशं फलम् ॥ ३७॥ आनन्दाश्रूणि रोमाञ्चो, बहुमानः प्रियं वचः । किं चानुमोदना पात्रदानभूषणपञ्चकम् ॥ ३८॥ अनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चामी, सदानं दूषयन्त्यहो ॥ ३९॥ स्थावरं जङ्गमं चेति, सत्पात्रं द्विविधं स्मृतम् । स्थावरं तत्र पुण्याय, प्रासादप्रतिमादिकम् ॥ २४०॥ ज्ञानाधिकं तपःक्षामं, निर्ममं निरहङ्क्तम् । स्वाध्यायब्रह्मचर्येण, युक्तं पात्रन्तु जङ्गमम् ॥ ४१॥ तयोस्तत्र द्वयोर्मध्ये, जङ्गमं पात्रमुत्तमम् । स्थावरं हि बहोः कालात्सद्यः पुण्याय जङ्गमम् ॥ ४२ ॥ देवधर्मादिकं सर्व, ज्ञायते जङ्गमाद्यतः। प्रोक्तं सर्वोत्तमं तेन, सत्पात्रं जङ्गमं बुधैः ॥ ४३ ॥
काव्यम्-शूराः सन्ति सहस्रशः सुचरितैः पूर्ण जगत्पण्डितैः,
सया नास्ति कलाविदां बहुतरैः शान्तैर्वनान्ताः श्रिताः।
॥५७॥
For Private 8 Personal Use Only
O
Join Education
jainelibrary.org