SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पाताले त्रिदिवेऽथवा समभवजन्मान्तरं मेऽपरम् , कोऽस्मि कास्मि किमस्मि कर्म विदधत् क्षिप्तोऽस्मि केनात्र च ? ॥२६॥ इतिचिन्तयतस्तस्य, प्रभातं समजायत । चकारावश्यकादीनि, प्रातःकृत्यान्यसौ सुधीः ॥२७॥ तदिनाद्धर्मकार्याणि, विदधेऽसौ महादरात् । दीनादिभ्यो ददौ दानं, पात्रेभ्योऽपि विशेषतः ॥२८॥ यतः-दातव्यं भोक्तव्यं, सति विभवे सञ्चयो न कर्त्तव्यः। पश्येह मधुकरीणां, सञ्चितमर्थ हरन्त्यन्ये॥२९॥ ___यतः-रूपं स्वरूपं वसुवासवोपमं, रम्याणि हाणि मनोरमा स्त्रियः। __ भवन्ति सौभाग्ययुताश्च देहिनः, सुपात्रदत्तेन धनेन सर्वदा ॥ २३०॥ यतः-सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्मसाधनसामग्री, नाल्पपुण्यैरवाप्यते ॥३१॥ ज्ञानयुक्तः क्रियाधारः, सुपात्रमभिधीयते । दत्तं बहुफलं तत्र, धेनुसक्षेत्रयोरिव ॥ ३२ ॥ असद्भ्योऽपिच यद्दानं, तन्न श्रेयस्करं विदुः । दुग्धपानं भुजङ्गानां, जायते विषवृद्धये ॥ ३३ ॥ गाथा-जं तवसंयमहीणं, नियमविह्नणं च बंभपरिहीणं । तं सिलसमं पत्तं, बुड्डन्तं बोलए अन्नं ॥ ३४ Jain Education in Monal For Private Personel Use Only Hijainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy