________________
महा
धर्म. ॥५६॥
देव्यूचे भद्र ! किं नूनं ?, प्रोवाच सुन्दरः पुनः। सूनु, नास्ति तदुःखं, यं विना भाति नो कुलम् ॥२२०॥
यतः-दिनं दिनकरं विना वितरणं विना वैभवं,
महत्त्वमुचितं विना सुवचनं विना गौरवम् । सरः सुजल विना धनभरं विना मन्दिरम्,
कुलं तनुरुहं विना श्रयति नैव सश्रीकताम् ॥ २१॥ देवि ! देहि ततः पुत्रं, प्रशस्तं शुभलक्षणम् । मद्वाचा ते सुतो भावीत्युक्त्वा देवी पुनर्जगौ ॥ २२ ॥ |७|| सुभगः सुगुणो दक्षस्तव पुत्रो भविष्यति । परं तव च पुत्रस्य, सुखं नो भवितोभयोः ॥ २३ ॥ मातापित्रोवियोगोऽस्य, बालत्वेऽपि भविष्यति । प्रथम चासुखीभूत्वा, पश्चात्स भविता सुखी ॥ २४ ॥ इत्युक्त्वा सा तिरोभूता, यानस्था स्वाश्रयङ्गता । श्रेष्ठीक्षणं स्थिरं स्थित्वा, निजचित्ते व्यचिन्तयतू२५ ॥५६॥
काव्यम्-स्वप्नः किन्तु किमिन्द्रजालमथवा किं चेतसो विभ्रमो,
दोषः कोऽपि किमेष मे नयनयोर्विश्वकसंमोहकृत् ।
Jan Education
For Private 3 Personal Use Only
Altinelibrary.org