SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ क्रुधाऽचिन्ति मया केन, विमानं स्तम्भितं मम ? । अवधिज्ञानयोगेन, तदा पश्चानिरीक्षितम् ॥ ९॥ तदाऽधस्तान्मया दृष्टस्त्वं ध्यानेनात्र संस्थितः। सन्तानार्थश्च चिन्तापि, ज्ञाता ते याऽस्ति चेतसि २१०/ अहं हृष्टा तदा चित्ते, कोपाटोपश्च संवृतः । तव ध्यानप्रभावेन, विमानं स्तम्भितं मम ॥ ११ ॥ यतः-पुण्यवान यः पुमान कोऽपि, कष्टचिन्तार्णवे पतेत् । तस्योपरि भवेद्दवं, स्थिरं यानमितिस्थितिः१२. यतः-साधुस्त्रीबालवृद्धानां, पीडितानाञ्च केनचित्। उल्लङ्घने च तीर्थानां, विमानं स्थिरतां भजेत्॥१३॥ यतः-दुष्टारिष्टाभिभूता ये, दुःखिनश्च सुम्मिणः। सांनिध्यं क्रियते तेषां, स्थितिरेषा हि दैवती॥१४॥ अतोऽहं पूर्वमोहेन, तव ध्यानेन सुन्दर ! । मुक्त्वा विमानमाकाशे, आगता भवदन्तिके ॥१५॥ तुष्टाऽहं तव भाग्येन, याचस्व वरमीहितम् । सुन्दरःस्माह हे मातः !, सत्यं सर्व त्वयोदितम् ॥ १६ ॥ शृण्वतो मम त्वद्वाचं, जातिस्मृतिरभूदिह । तेन पूर्वो भवो दृष्टो, यादृशः कथितस्त्वया ॥ १७ ॥ । अथ त्वं यदि तुष्टाऽसि, किमन्यद् याच्यते ? यतः । सांसारिकं सुखं सर्वमस्ति मे त्वत्प्रसादतः ॥१८॥ परमेकं हि मे नास्ति, देहि तद्देवि ! साम्प्रतम् । येन मे सफलं जन्म, जायते जगतीतले ॥ १९ ॥ Jain Education inte For Private & Personel Use Only S ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy