SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १० धर्मः श्रीशान्तिः कुन्थुश्च, अरो महिर्मुनि (श्च) पुत्रतः । नमिनेंमिः पार्श्वनाथो, महावीरो जिनोत्तमः ९१ चतुर्द्दिशतितीर्थेशानेतांश्च समये तदा । अतीतान् भाविनश्चापि, स ववन्दे शिवङ्करान् ॥ ९२ ॥ धर्मध्याने स्थितस्यैवं, सुन्दरस्य महात्मनः । प्रत्यक्षीभूय तत्राऽऽगात्, गोत्रजा पूर्वजन्मनः ॥ ९३ ॥ यतः - सदयः सत्यवादी यः, सलज्जः शुद्धमानसः । गुरुर्देवार्चको वाग्ग्मी, तस्य तुष्यन्ति देवताः ॥ ९४ ॥ यतः- चोराणां वञ्चकानाञ्च परदारापहारिणाम् । " निर्द्दयानाञ्च निःस्वानां, न तुष्यन्ति सुराः कदा ॥ ९५ ॥ असत्यवादिनां हत्याकारकाणां कुकर्म्मणाम् । अन्तर्मलिनचित्तानां न तुष्यन्ति सुराः कदा ॥ ९६ ॥ गोत्रजा सा जगादैवं, मां त्वं जानासि सुन्दर ! । प्राग्भवेऽहं भवद्देवी, तव पूर्वभवं शृणु ॥ ९७ ॥ श्रीनिवासपुरे पूर्वमिभ्यः सोमाभिघोऽभवत् । सोमश्रीस्तस्य भार्याऽभूद्गोत्रजा भुवनेश्वरी ॥ ९८॥ सिंहदत्ताभिधः श्रेष्ठः, श्रेष्ठिनोऽस्य सुतोऽभवत् । कृत्वा दानादिकं धर्म्म, सोमो मृत्युमवाप सः ॥९९॥ उत्पन्नः सोमदेवोऽत्र, पुरे तिलकनामनि । सिंहदत्तस्य जीवस्त्वं, पुत्रो जातोऽस्य सुन्दर ! ॥ २०० ॥ Jain Educationtional For Private & Personal Use Only w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy