SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 售 ॥५४॥ Jain Education I काव्यम् - इक्षोर्विकारा मतयः कवीनां, गवा रसो बालकभाषणानि । ताम्बूलमन्नं युवती कटाक्षा, एतान्यहो शुक्र ! न सन्ति नाके ॥ ८१ ॥ को भावी मद्गृहाधीशो, वंशवृद्धिः कथं भवेत् । कः कर्त्ता च विना पुत्रं, गुरुगोत्रजयोः स्थितिम् ? ॥ ८२ ॥ इति चिन्तापरो नित्यं, शून्यचित्तः सुतार्त्तिभाक् । दिनान्यपूरयन् श्रेष्ठी, धने सत्यपि दीनवत् ॥ ८३ ॥ एकदा यामिनीयामे, पश्चिमे स महामतिः । धर्मात्मा धर्म्मकृत्येषु, विशेषात्प्रगुणोऽभवत् ॥ ८४ ॥ शय्यां विमुच्य यत्नेन, प्रमार्ण्य धरणीतलम् । पद्मासनं दृढीकृत्योपविष्टो विष्टरे वरे ॥ ८५ ॥ पिण्डस्थं च पदस्थं चं, रूपस्थं रूपवर्जितम् । एवं चतुर्विधे ध्याने, यथाशक्ति समुद्यतः ॥ ८६ ॥ परमेष्ठिनमस्कारं, सारं सस्मार मानसे । ववन्दे शुभभावेन, श्रेष्ठी शास्वततीर्थपान् ॥ ८७ ॥ शत्रुञ्जयोज्जयन्ताद्री, संमेतशिखरं तथा । अष्टापदञ्च तीर्थाणि, नमश्चक्रेऽथ शान्तये ॥ ८८ ॥ ऋषभेशोऽजितः स्वामी, संभवश्चाभिनन्दनः । सुमतिस्तु पद्मप्रभः, श्रीसुपार्श्वे जिनाधिपः ॥ ८९ ॥ चन्द्रप्रभस्तु सुविधिः, शीतलस्तीर्थनायकः । श्रेयांसो वासुपूज्योऽपि, विमलोऽनन्ततीर्थराट् ॥ १९० ॥ For Private & Personal Use Only. महा. ॥५४॥ ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy