SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ॥५३॥ Jain Education पुरा कृतस्य पापस्य, विपाकेन विना तथा । कथं वरेण्यपुण्यस्य, प्रभावो ज्ञायते भुवि ॥ ६१ ॥ यदा सङ्कटमायाति, प्रयाति विलयं तदा । तदा तदा क्षणे जन्तोः, पापपुण्यफलं भवेत् ॥ ६२ ॥ जानन्ति मानवा दक्षाः, पुण्यपापफलं स्वयम् । मुग्धजन्तुविबोधार्थी, कथ्यते हेतुभिः पुनः ॥ ६३ ॥ राजोचे भगवन्कोऽसौ, सुन्दर श्रेष्ठिसंभवः । किं कृतं प्रबलं पुण्यं ?, गतं पापं कथं पुनः १ ॥ ६४ ॥ अहं तु श्रोतुमिच्छामि, तत्कथां त्वत्प्रसादतः । यस्यात्रैव कृतो धर्म, इहैव फलितो द्रुतम् ॥ ६५ ॥ मुनिराह - महाभाग !, शृणु त्वं शुद्धचेतसा । सम्यक् ते कथयामीत्थं कथां कौतुककारिणीम् ॥ ६६ ॥ अथ - जम्बूद्वीपेऽस्ति सत्क्षेत्रं, पवित्रं भरताभिधम् । तद्भाले तिलकाकारं, पुरं तिलकनामकम् ॥ ६७ ॥ तत्पुरं पालयामास, राजा श्रीतिलकप्रभुः । प्रजानां पोषको नित्यं, शोषकः पापकारिणाम् ॥ ६८ ॥ तिलक श्रीः प्रिया तस्य, सती सौभाग्यशालिनी । सौजन्यगुणसंयुक्ता, रूपेण जितदेवता ॥ ६९ ॥ तत्पुरे सुन्दर श्रेष्ठी, गुणैज्र्ज्येष्ठो विशिष्टधीः । निजवंशावतंसोऽभूद्दया दाक्षिण्यसुन्दरः ॥ १७० ॥ सुभगश्रीः प्रिया तस्य, भाग्यसौभाग्यभूरभूत् । सुशीला स्वजनानन्ददायिनी कमलोपमा ॥ ७१ ॥ itional For Private & Personal Use Only महा. ॥५३॥ w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy