________________
श्रेष्ठिदेवचन्द्रलालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्के
श्रीमदुदयधर्मगणिविरचितम्श्रीधर्मकल्पद्रुमनाम महाकाव्यम्.
॥ श्रीपार्श्वनाथाय नमः । श्रीगुरुभ्यो नमः ।। श्रियं दिशतु वो नित्यं, श्रीनाभेयजिनेश्वरः । युगादौ प्रकटीचक्रे, धम्मो येन सुखावहः ॥ १ ॥ शान्तिनाथो जिनः शान्त्य, भवताद्भवपारदः। यस्य कान्त्या जितो मेरुस्तिष्ठत्यद्यापि निश्चलः ॥२॥ राज्यं प्राज्यमपि त्यक्त्वा, जित्वा यो मदनं भटम् । भेजे चारित्रसाम्रज्यं, श्रीनेमि नौमि तं मुदा ॥३॥ दुष्टारिष्टहरो लोके, मनोवाञ्छितदायकः । श्रीपार्श्वः पातु वो नित्यं, जीरापल्लिविभूषणः ॥ ४॥ आत्मनोऽभ्यधिकं दृष्ट्वा, सिंहो यस्य पराक्रमम् । करोत्यङ्कमिषात्सेवां, स वीरोऽस्तु वरप्रदः ॥ ६ ॥ श्रीअजितादयोऽप्यन्य, जिनाः विजितमन्मथाः । मोक्षलक्ष्मीप्रदातारो, भवन्तु भविनां मुदे ॥६॥
SCEducation
For Private Personal use only
HUw.jainelibrary.org