SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ ACCORDCALCURRECOGAONOCROGRAM स्योत्कर्षतोऽप्येतावन्मात्रत्वात् , तथा चाह-पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् , अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतत्वापगमे पुनः संसारापरीतत्वस्यासम्भवात् , नोपरीत्तनोअपरीतस्यापि साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः परीत्ताः, कायपरीत्तानां संसारपरीत्तानां चाल्पत्वात् , नोपरीत्तानोअपरीत्ता अनन्तगुणाः सिद्धानामनन्तत्वात् , अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतत्वात् ॥ अहवा तिविहा सव्वजीवा पं०२०-पजत्तगा अपज्जत्तगा नोपजत्तगानोअपज्जत्तगा, पजत्तके णं भंते!०, जह० अंतो० उक्को० सागरोवमसतपहत्तं साइरेगं । अपजत्तगे णं भंते!, जह० अंतो. उक्को० अंतो० नोपज्जत्तणोअपजत्तए सातीए अपज्जवसिते । पजत्तगस्स अंतरं जह० अंतो० उक्को. अंतो०, अपजत्तगस्स जह० अंतो० उक्को० सागरोवमसयपुहत्तं साइरेगं, तइयस्स णत्थि अंतरं । अप्पाबहु० सव्वत्थोवा नोपज्जत्तगनोअपजत्तगा अपज्जत्तगा अणंतगुणा पजत्तगा संखिजगुणा (सू० २५२) ___ 'अहवे'त्यादि, अथवा प्रकारान्तरेण सर्वजीवास्त्रिविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तका नोपर्याप्तकानोअपर्याप्तकाच, तत्र पर्याप्तककायस्थितिचिन्तायां जघन्येनान्तर्मुहूर्त, अपर्याप्तकेभ्यः पर्याप्तेषत्पद्यान्तर्मुहर्तात्परतोऽपर्याप्तकेषु भूयोऽपि गमनात् , उत्कर्पतः सागरोपमशतपृथक्त्वं सातिरेकं, तत ऊर्द्ध नियमतोऽपर्याप्तकभावात, लब्ध्यपेक्षं चेदं सूत्रं, तेनापान्तराले उपपातापर्याप्तकत्वेऽपि न कश्चिद्दोषः । अपर्याप्तकसूत्रे जघन्यतोऽप्यन्तर्मुहर्तमुत्कर्षतोऽप्यन्तर्महत, अपर्याप्तलब्धेर्जघन्यत उत्कर्षतश्चैतावन्मात्रकालत्वात् , नवर For Private Personal Use Only M Jain Education in ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy