________________
Jain Education Intel
स चानन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येया: पुद्गलपरावर्त्ताः ते च पुद्गलपरावर्त्ता आवलिकाया असयो भागः, एतावन्तं कालं वनस्पतिष्वभाषकत्वात् ॥ साम्प्रतमन्तरं चिचिन्तयिषुराह - 'भासगस्स णं भंते!" इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, अभाषककालस्य भापकान्तरत्वात् । अभाषकसूत्रे साद्यपर्यव - सितस्य नास्त्यन्तरमपर्यवसितत्वात्, सादिसपर्यवसितस्य जघन्येनैकं समयमुत्कर्षतोऽन्तर्मुहूर्त्त, भाषककालस्याभाषकान्तरत्वात् तस्य च जघन्यत उत्कर्षतश्चैतावन्मात्रत्वात्, अल्पबहुत्वसूत्रं प्रतीतम् || 'अहवे' त्यादि, सशरीरा:- असिद्धा अशरीरा:-सिद्धाः, ततः सर्वा - ण्यपि सशरीराशरीरसूत्राणि सिद्धासिद्धसूत्राणीव भावनीयानि ।।
अहवा दुविहा सजीवा पण्णत्ता, तंजहा - चरिमा चेव अचरिमा चैव ॥ चरिमे णं भंते! चरिमेति कालतो के चिरं होति ?, गोयमा ! चरिमे अणादीए सपज्जवसिए, अचरिमे दुविहे - अणातीए वा अपज्जवसिए सातीए अपज्जवसिते, दोपहंपि णत्थि अंतरं, अप्पाबहुं सव्वत्थोवा अचरिमा चरिमा अनंतगुणा । [ अहवा दुविहा सव्वजीवा सागारोवउत्ता य अणागारोवउत्ता , दोपि संचिणावि अंतरंपि जह० अंतो० उ० अंतो०, अप्पाबहु० सव्वत्थोवा अणागारोवउत्ता सागारोवउत्ता असंखेजगुणा ] सेत्तं दुविहा सव्वजीवा पन्नत्ता ] । ( सू० २४९ ) 'अहवे'त्यादि, चरमा:- चरमभववन्तो भव्यविशेषा ये सेत्स्यन्ति, तद्विपरीता अचरमा:- अभव्याः सिद्धाश्च । कायस्थितिसूत्रे चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात् । अचरमसूत्रेऽचरमो द्विविधः प्रज्ञप्तस्तद्यथा - अनादिको वाऽपर्यवसितः सादिको वाऽ
For Private & Personal Use Only
inelibrary.org