SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ %+60-7 % % अपढमसमयएगिंदिया अणंतगुणा ॥ (सू०२४३)॥ सेत्तं दसविहा संसारसमावण्णगा जीवा पण्णत्ता, सेत्तं संसारसमावण्णगजीवाभिगमे॥ तत्थेत्यादि, तत्र ये ते एवमुक्तवन्तो दशविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयैकेन्द्रिया अप्रथमसमकेन्टियाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयबीन्द्रियाः प्रथमसमयत्रीन्द्रिया अप्रथमसमयत्रीन्द्रिया: प्रथमसमयचतुरिन्द्रिया अप्रथमसमयचतुरिन्द्रियाः प्रथमसमयपञ्चेन्द्रिया अप्रथमसमयपञ्चेन्द्रिया: प्रथमसमयाप्रथमसमयव्याख्यानं पूर्ववत् ॥ साम्प्रतमेतेषामेव दशानां क्रमेण स्थिति निरूपयति-पढमसमयेत्यादि, प्रथमसमयै केन्द्रियस्य भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! एकं समयं, द्वितीयादिषु समयेषु प्रथमसमयत्वविशेषणस्यायोगात् , एवं प्रथमसमयद्वीन्द्रियादिसूत्रेष्वपि वक्तव्यं, अप्रथमसमयैकेन्द्रियसूत्रे जघन्यत: क्षुल्लकभवग्रहणं-पट्पञ्चाशदधिकावलिकाशतद्वयप्रमाणं समयोनं, समयोनता प्रथमसमयेऽप्रथमसमयत्वायोगात् , उत्कर्षतो द्वाविंशतिवर्षसहस्राणि समयोनानि, प्रथमसमयेन हीनत्वात् , अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं पूर्ववत् , उत्कर्षतो द्वादश संवत्सराः समयोना:, अप्रथमसमयत्रीन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवानि समयोनानि, अप्रथमसमयचतुरिन्द्रियसूत्रेऽपि जघन्यं तथैव, उत्कर्षत: षण्मासा: समयोनाः, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं प्राग्वत् , उत्कर्षतस्रयस्त्रिंशत्सागरोपमाणि समयोनानि, समयोनता सर्वत्रापि प्रथमसमयेन हीना प्रतिपत्तव्या ॥ साम्प्रतमेतेषां क्रमेण कायस्थितिमाह-पढमसमये इत्यादि, प्रथमसमयैकेन्द्रियो भदन्त ! प्रथमसमयैकेन्द्रिय इति-प्रथमसमयैकेन्द्रियत्वेन कालत: 'कियच्चिर' कियन्तं कालं यावद्भवति?, भगवानाह %2525% % % % Jain Education na For Private & Personal Use Only न ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy