________________
उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्यक्त्वोपपत्तेः, अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं, तत्तु तिर्यग्योनिकक्षुल्लकभवग्रहणचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुल्लकभवनहणेन व्यवधाने सति तिर्थक्त्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात् , उत्कर्षत: सागरोपमशतपृथक्त्वं सातिरेकं, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुल्लकभवग्रह्णन | व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकसूत्रद्वयवत् ।। सम्प्रत्येषामेव चतुर्णी प्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसिण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसङ्ख्येयभागमात्रत्वात् , तेभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयदेवा असङ्ख्येयगुणाः, व्यन्तरज्योतिष्काणा
मतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयतिर्यञ्चोऽस येयगुणा:, इह ये नारकादिगतित्रयादागत्य तिर्य४क्त्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयतिर्यञ्चो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसयेयो भागः सदा विग्रहगतिप्रथमसमयवर्ती
लभ्यते तथाऽपि निगोदानामपि तिर्यक्त्वान्न ते प्रथमसमयतिर्यञ्च: ते एभ्य: सोयगुणा एव ।। साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि णमित्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसङ्ख्येयभागत्वात् , तेभ्योऽप्रथमसमयनैरयिका असहयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदे| शराशिस्तावत्प्रमाणासु श्रेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वान् , तेभ्योऽप्रथमसमयदेवा असल्येयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतत्वान् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् ॥ साम्प्रतमेतेषामेव नैरयिकादीनां प्रत्येकं प्रथमसमयाप्रथमसमयगतमल्पबहुत्वमाह-'एएसि णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः
For Private Personal Use Only
Jain Education
ainelibrary.org
स