________________
॥ ४२८ ॥
निरन्तरं सप्तसु पूर्व कोट्यायुष्केषु भवेष्वष्टमे च भवे देवकुर्वादिपूत्पन्नाया द्रष्टव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च देवस्य दे व्याश्च यैव भवस्थितिः सैव कायस्थितिः, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावेनोत्पादाभावात् ॥ साम्प्रतमेपामन्तरं चिचिन्तयिषुराह - 'नेरइयस्स णं भंते!' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्मुहूर्त्त तच्च नरकादुद्धृतस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मररीयावृत्तिः । णतः परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः, नरकादुदृत्तस्य पारम्पर्येणानन्तं कालं वनस्पतिष्ववस्थानात् तिर्यग्योनिकस्य जघन्येनान्तरमन्तमुहूर्त्त तच्च तिर्यग्योनिकभवादुद्धृत्त्यान्यत्रान्तर्मुहूर्त्त स्थित्वा भूयस्तिर्यग्योनित्वेनोत्पद्यमानस्य वेदितव्यम्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकम् । तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः ॥ सम्प्रत्येतेषामेव सप्तानां पदानामल्पबहुत्वमाह - 'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - सर्वस्तोका मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्या असङ्ख्येोयगुणाः, संमूच्छिममनुष्याणां श्रेण्यसङ्ख्येयप्रदेशराशिप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकाः स्त्रियोऽसङ्ख्येयगुणाः, प्रतरासङ्ख्येयभागवर्त्तिश्रेण्या काशप्रदेश राशिताभ्यो देवाः सङ्ख्यगुणाः, वानमन्तरज्योतिष्काणामपि जलचरतिर्यग्योनिकीभ्यः सङ्ख्येयगुणतया महादण्डके पठितत्वात्, तेभ्यो देव्यः सङ्ख्येयगुणा द्वात्रिंशद्गुणत्वात्, “बत्तीसगुणा बत्तीसरूवअहियाओ होंति देवाणं देवीओ” इति वचनात्, ताभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तानन्तत्त्वात् उपसंहारमाह- 'सेत्त' मित्यादि सुगमम् ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां षष्ठयां प्रतिपत्तौ सप्तविधप्रतिपत्तिः ॥
प्रमाणत्वात्,
श्रीजीवाजीवाभि०
मलयगि
Jain Educational
F
For Private & Personal Use Only
६ प्रतिपत्तौ नैरयिकस्थित्यादि
उद्देशः २
सू० २४०
॥ ४२८ ॥
w.jainelibrary.org