________________
+KKR
R
त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका बादरनिगोदा मूलकन्दादिगता: पर्याप्तका द्रव्यार्थतया, प्रतिनियतक्षेत्रवर्तित्वात् , तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्ख्येयगुणाः, एकैकपर्याप्तवादरनिगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तानां वादरनिगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसङ्ख्येयगुणाः, सकललोकापन्नतया क्षेत्रस्यासङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनि
गोदाः पर्याप्ता द्रव्यार्थतया सवयेयगुणाः, सूक्ष्मेष्वोधतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् , 'पएसट्ठयाए' इति अत ऊर्द्ध प्रदेल शार्थतया चिन्ता क्रियते, तामेव करोति-सर्वस्तोका बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया द्रव्याणां स्तोकत्वात् , तेभ्यो बादरनिगोदा
अपर्याप्ताः प्रदेशार्थतयाऽसल्येयगुणा द्रव्याणामसङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः द्रव्याणां सङ्ख्येयगुणत्वात् । 'दव्वट्ठपएसट्ठयाए'त्ति अधुना द्रव्यार्थप्रदेशार्थतया | चिन्ता क्रियते-सर्वस्तोका बादरनिगोदा: पर्याप्ता द्रव्यार्थतया, बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता द्रव्यार्थतया सद्ध्येयगुणाः, युक्ति: प्राक्तन्येव, तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणाः, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ताः | प्रदेशार्थतया सङ्ख्येयगुणाः, द्रव्याणामसङ्ख्येयगुणत्वात् , तेभ्योः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतया असङ्ख्येयगुणाः, युक्ति: प्राक्तन्येव, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता: सङ्ख्येयगुणाः, द्रव्याणां सवयेयगुणत्वात् , साम्प्रतमेतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका बादरजीवाः पर्याप्ता द्रव्यार्थतया, निगोदानां स्तोकत्वात्, | तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणा, निगोदानामसङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवाः अपर्याप्तका
ECAUSAKAL
Jain Education
For Private
Personal Use Only
H
riainelibrary.org