________________
Jain Education Int
यिका अपर्याप्ता यथोत्तरमसङ्ख्यगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्ख्येयगुणाः, ततः सूक्ष्मपृथिवी कायिक सूक्ष्माय्कायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरं विशेषाधिकाः, ततः सूक्ष्मतेजस्कायिका: पर्याप्ताः सङ्ख्येचगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्ख्येयगुणत्वात् ततः सूक्ष्मपृथियीकायिक सूक्ष्मा कायिकसूक्ष्मवायुकायिका: पर्याप्ता यथोत्तरं | विशेषाधिकाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका असङ्ख्येयगुणाः, तेपामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदा असोयगुणाः, सूक्ष्मेष्वपर्याप्तानां सदैवोघतः सङ्ख्येयगुणत्वात् एते च बादरपर्याप्ततेजस्कायिकादयः पर्याप्तनिगोदपर्यवसानाः पोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्ख्येयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाऽप्यसङ्ख्या तस्यासङ्ख्यात भेदभिन्नत्वादित्यमसयेयगुणत्वं विशेषाधिकत्वं सङ्ख्येयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्म निगोदेभ्यो वादरवनस्पतिकायिका अपर्याप्ता अनन्तगुणाः, प्रतिबाद रैकैकनिगोदमनन्तानां जीवानां भावान्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि तत्र प्रक्षेपात् तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्त निगोदनिश्रयाऽसङ्ख्येयानां बादर निगोदापर्याप्तानामुत्पादात्, तेभ्यः सामान्यतो वादरा अपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसङ्ख्येयगुणत्वात् ततः सामान्यतः सूक्ष्मा अपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सयेयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिका: पर्याप्ताः सोयगुणाः, सूक्ष्मेष्वप्योघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् ततः सामान्यतः सूक्ष्मपर्याप्तेभ्योऽपि सो
For Private & Personal Use Only
jainelibrary.org