________________
Jain Education Int
दश वर्षसहस्राणि प्रत्येकशरीरबादरवनस्पतिकायस्य दश वर्षसहस्राणि सामान्यतो निगोदस्य जघन्येनाप्युत्कर्षतोऽप्यन्तर्मुहूर्त्त बादर - निगोदस्य जघन्यत उत्कर्षतोऽप्यन्तर्मुहूर्त्त बादरत्रसकायस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्येतेषामेव सामान्यतो बादरादीनां दशानामपर्याप्तानां स्थितिं चिचिन्तयिषुः सूत्रदशकमाह - ' बायर अपज्जत्तगस्स णं भंते!' इत्यादि पाठसिद्धं, | सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्ताभिधानात् ॥ साम्प्रतमेतेषामेव पर्याप्तानां स्थिति चिन्तयति - ' बांदरपजत्तगस्स णं भंते!' इत्यादि, जघन्यतः सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतः सामान्यतो बादरस्य त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूतनानि, अपर्याप्तकावस्थाभाविनाऽन्तर्मुहूर्त्तेनोनत्वात् एवं बादरपृथिवीकायिकपर्याप्तकस्य द्वाविंशतिर्वर्षसहस्राणि अन्तर्मुहूतनानि, बादराप्कायिकस्य पर्याप्तकस्य सप्त वर्षसहस्राणि अन्तर्मुहूर्त्तेनानि बादरतेजस्कायिकपर्याप्तकस्य त्रीणि रात्रिन्दिवानि अन्तर्मुहूतनानि, बादरवायुकायिकपर्याप्तकस्य त्रीणि वर्षसहस्राणि अन्तर्मुहूतनानि, बादरवनस्पतिकायपर्याप्तकस्य दश वर्षसहस्राणि अन्तर्मुहूर्त्तेनानि, प्रत्येकबादरवनस्पतिकायिकपर्यातकस्यापि दश वर्षसहस्राणि अन्तर्मुहूर्त्तेनानि, सामान्यतो निगोदपर्याप्तकस्य बादरनिगोदपर्याप्तकस्य च जघन्यतोऽप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्त, वादरत्रसकायिकपर्याप्तस्य जघन्यतोऽन्तर्मुहूर्त्त मुत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूतनानि ॥ साम्प्रतं कायस्थितिमाह
बायरे णं भंते! बायरेत्ति कालओ केवचिरं होति ?, जह० अंतो० उक्कोसेणं असंखेज्जं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ खेतओ अंगुलस्स असंखेज्जतिभागो, बायरपुढविकाइआउ वाउo पत्तेयसरीरबादरवणस्सइकाइयस्स बायरनिओयस्स० [ वायरवणस्सस्स जह
For Private & Personal Use Only
jainelibrary.org