________________
%
%
%
%
तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशराशिमानत्वात् , वेभ्यः सूक्ष्मनिगोदा असङ्ख्येयगुणाः, तेषां ताप्रतिगोलकमसङ्ख्येयत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां सद्भावात् , तेभ्य: सामान्यतः सूक्ष्मा विशेषाधिकाः, सूक्ष्मपृथ्वीकायिकादीनामपि तत्र प्रक्षेपात् , तेषामौधिकामामिदमल्पबहुत्वम् । इदानीमेतेषामेवापर्याप्तानामाह-ए-1 एसिणं भंते ! सुहुमअपजत्ताण'मित्यादि सर्व प्राग्वद् भावनीयं । साम्प्रतमेसेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसिणं भंते ! सुहमपजत्तगाण'मित्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं ॥ अधुनाऽमीषामेव सूक्ष्मादीनां प्रत्येक पर्याप्तापर्याप्तगतान्यल्पबहुत्वान्याह-'एएसिणं भंते ! सुहुमाणं पज्जत्तगाण'मित्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिश्रया असङ्ख्येयानामपर्याप्तानामुत्पादात् , तथा चोक्तं प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे-"पजत्तगनिस्साए अपजत्तगा बकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, सूक्ष्मेषु पुन यं क्रमः, पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो है लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ता: तेभ्यः सूक्ष्मा: पर्याप्तकाः सङ्ख्येयगुणाः, एवं पृथ्वीकायादिष्वपि प्रत्येकं भावनीयम् ॥ गतं चतुर्थमल्पबहुत्वमिदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-एएसि ण'मित्यादि, सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिव्यबुवायवोऽपर्याप्ताः क्रमेण विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्ख्येयगुणाः, अपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणानामेव भावितत्वात् , तेभ्यः सूक्ष्मपृथिव्यब्वा
यवः पर्याप्ताः क्रमेण विशेषाधिकाः, कारणं प्रागेवोक्तं, ततः सूक्ष्मनिगोदा अपर्याप्ता असङ्ख्येयगुणास्तेषामतिप्राचुर्यात् , तेभ्यः सूक्ष्मा है निगोदाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्य: पर्याप्तानामोघत: सङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्त अन
%20%A5%251525%
Jain Education Inter
For Private & Personel Use Only
L
ainelibrary.org