SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat स्थित्यादि चिचिन्तयिषुराह - 'सुहुमस्स णं भंते' इत्यादि, सूक्ष्मस्य सामान्यतो निगोदरूपस्यानिगोदरूपस्य वा भदन्त ! कियन्तं कालं स्थिति: प्रज्ञप्ता ?, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षेणाप्यन्तर्मुहूर्त्त, नवरमुत्कर्षतो विशेषाधिकमवसातव्यम्, अन्यथोत्कर्षायोगात् । एवं सूक्ष्मपृथिवी काया कायिक तेजस्कायिक वायुकायिक वनस्पतिकायसूक्ष्मनिगोदविषयाण्यपि षट् सूत्राणि वक्तव्यानि, अथ सूक्ष्मवनस्पतिर्निगोदा एव ततस्तत्सूत्रेणैव गतमिति किमर्थं पृथग् निगोदसूत्रं ?, तदयुक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात्, सूक्ष्मवनस्पतयो हि जीवा विवक्षिताः, सूक्ष्मनिगोदास्तु प्रत्येकमनन्तानां जीवानामाधारभूताः शरीररूपास्ततो न कश्चिद्दोष:, उक्तञ्च - "गोला य असं- * खेज्जा असंखनिगोदो य गोलओ भणिओ । एकिकंमि निगोए अनंतजीवा मुणेयव्वा ॥ १ ॥ एगो असंखभागो वट्टइ उव्वट्टणोववायंमि । एगनिगोदे निचं एवं सेसेसुवि स एव ॥ २ ॥ अंतोमुहुत्तमेतं ठिई निगोयाण जंति निद्दिट्ठा | पल्लट्टेति निगोया तम्हा अंतो| मुहुत्तेणं ॥ ३ ||” आसामक्षरगमनिका - सूक्ष्मनिगोदैः सकल एव लोकः सर्वतो व्याप्तोऽञ्जनचूर्ण पूर्णसमुद्रवत्, तस्मिन्नित्यं निगोदै-र्व्याप्ते लोके निगोदमात्रावगाहना असङ्ख्या निगोदा वृत्ताकारा बृहत्प्रमाणा गोलका इति व्यपदिश्यन्ते, निगोद इति च नाम अनन्तानां जीवानामेकं शरीरं, तत उक्तम्- असङ्ख्येया गोलाः, एकैकस्मिंश्च गोलकेऽसोया निग़ोदा एकैकश्च निगोदः अनन्तजीव इति, एकस्मिंश्च निगोदे येऽनन्ता जीवास्तेषामेकोऽसयतमो भागः प्रतिसमय मुद्वर्त्ततेऽन्यश्चोत्पद्यते, तथा हि विवक्षिते समये विवक्षितस्य निगोदस्यैकोऽसयेयतमो भाग उद्वर्त्ततेऽन्यश्चासङ्ख्येयतमो भागस्तस्मिन्नपूर्व उत्पद्यते, द्वितीयेऽपि समयेऽन्योऽसङ्ख्येयभाग उद्वर्त्तते अन्यश्चापूर्व उत्पद्यते, एवं सकलकालमनुसमयमुर्द्वर्त्तनोपपाती, अत एव 'एगनिगोदे निच' मिति नित्यग्रहणं, यथा चैकस्मिन्निगोदे तथा सर्वेष्वप्यसङ्ख्येयेषु सर्वलोकव्यापिषु निगोदेषु प्रतिपत्तव्यं सर्वेषामपि च निगोदानां निगोदजीवानां स्थितिर्विनिर्दिष्टा ऽन्तर्मुहूर्त्तमात्रं For Private & Personal Use Only elibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy