________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ ४१२ ॥
Jain Education Inter
सङ्क्षेपेणोक्त:- "अस्संखोसप्पिणीसप्पिणीउ एगिंदियाण य चउन्हं । ता चेव ऊ अनंता वणस्सईए उ बोद्धव्या ॥ १ ॥ |" त्रसकायसूत्रे द्वे सागरोपमसहस्रे सङ्ख्यवर्षाभ्यधिके, एतावत एवाव्यवधानेन नसकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्तविषयायां पट्सूत्र्यां सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तम्, अपर्याप्तलब्धेरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात् । पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षतः सङ्ख्येयानि वर्षसहस्राणि पृथिवीकायिकस्य हि भवस्थितिरुत्कर्षतोऽपि द्वाविंशतिर्वर्षसहस्राणि ततः कतिपयनिरन्तर पर्याप्तभव मीलने सङ्ख्येयानि वर्षसहस्राणि लभ्यन्ते नाधिकं । एवमप्कायिकसूत्रेऽपि वक्तव्यं, तेजस्कायिकसूत्रे सङ्ख्येयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि भवस्थितिरुत्कर्पतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तर कतिपयपर्याप्तभवसङ्कलनायामपि सङ्ख्येयानि रात्रिन्दिवानि लभ्यन्ते न तु मासा वर्षाणि वर्षसहस्राणि वा । वायुकायिकसूत्रं वनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत् । त्रसकायसूत्रे सागरोपमशतपृथक्त्वं सा - तिरेकम् ॥ सम्प्रत्यन्तर निरूपणार्थमाह-- ' पुढ विकाइयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त्त पृथिवीकाया दृद्धृत्यान्यत्रान्तर्मुहूर्त्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः, पृथिवीकायादुद्धृत्य तावन्तं कालं वनस्पतिष्ववस्थानसम्भवात् । एवमप्तेजोवायुत्रससूत्रा ण्यपि भावनीयानि । वनस्पतिसूत्रे उत्कर्षतोऽसङ्ख्येयं कालम् 'असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति वक्तव्यं, वनस्पतिकायादुद्धृत्य पृथिव्यादिष्ववस्थानात् तेषु च सर्वेष्वप्युत्कर्षतोऽप्येतावत्कालभावात् ॥ सम्प्रत्यल्पबहुत्वमाह
अप्पाबहुयं सव्वत्थोवा तसकाइया तेक्वाइया असंखेजगुणा पुढविकाइया विसेसाहिया आउ काइया विसेसाहिया वाउक्काइया विसेसाहिया वणस्सतिकाइया अनंतगुणा एवं अपजत्तगावि
For Private & Personal Use Only
५ प्रतिपत्तौ पृथ्व्यादीना भेदाः स्थितिःकायस्थितिः
उद्देशः २
सू० २२६
२२८
॥ ४१२ ॥
ainelibrary.org