________________
SAMACAMGARMANGALASALAMSACH
त्रीणि त्रसकायविषयमेकमिति सर्वसङ्ख्यया षोडश सूत्राणि पाठसिद्धानि ॥ 'पुढविक्काइयस्स णं भंते।' इत्यादि स्थितिविषयं सूत्रषटुं सुप्रतीतं, तत्र जघन्यं सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षत: पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि अप्कायिकस्य सप्त तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि त्रसकायस्य त्रयस्त्रिंशत्सागरोपमाणि । अपर्याप्तविषयाण्यपि षट् सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्ताभिधानात् , नवरमुत्कृष्टमन्तर्मुहूर्त बृहत्तरं वेदितव्यं । पर्यातविषया षट्सूत्री पाठसिद्धा, नवरमन्तर्मुहूत्तोंनत्वं अपर्याप्तकालभाविनाऽऽन्तर्मुहूर्तेन हीनत्वात् ॥ सम्प्रति कायस्थितिमाह-'पुढविक्काइए ण भंते ! पुढविक्काइय'त्ति इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्धृत्यान्यत्रान्तमुंहूत स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात् , उत्कर्षतोऽसङ्ख्येयं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-असत्येया उत्सर्पिण्यवसर्पिण्यः, एषा कालतो मार्गणा, क्षेत्रतोऽसङ्ख्येया लोकाः, किमुक्तं भवति ?-असङ्ख्येयेषु लोकप्रमाणेष्वाकाशखण्डेषु प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन तान्यसयेयान्यपि लोकाकाशखण्डानि निर्लपितानि भवन्ति तावन्तमसङ्ख्येयं कालं यावदिति । एवमप्तेजोवायुसूत्राण्यपि वक्तव्यानि । वनस्पतिसूत्रे जघन्यं तथैव, उत्कर्षतोऽनन्तं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-अनन्ता । उत्सप्पिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽनन्ता लोका:-अनन्तानन्तेषु लोकालोकाकाशेपु प्रतिसमयमेकैकप्रदेशापहारे यावतार कालेन तान्यपि लोकालोकाकाशखण्डानि निलेपानि भवन्ति तावन्तमनन्तकालमित्यर्थः, तमेव पुद्गलपरावर्तेन निरूपयति-असङ्ख्येयाः पुद्गलपरावर्ताः, पुद्गलपरावर्त्तस्वरूपं पञ्चसङ्ग्रहटीकातो भावनीयं, पुद्गलपरावर्तगतमेवासद्ध्येयत्वं निर्धारयति-'ते ण'मित्यादि, ते | पुद्गलपरावर्ती आवलिकाया असङ्ख्येयो भागः, आवलिकाया असङ्ख्येये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं चार्थोऽन्यत्रापि
*- 14
Jan Education Inter
For Private Personal Use Only
inelibrary.org