________________
मित्यादि, सत्र-तेषु विमानेषु बहवो जीवा:-पृथ्वीकायरूपाः पुद्गलाच 'अपनामन्ति' गच्छन्ति 'व्युत्कामन्ति' उत्पद्यन्ते, तथा 'चीयन्ते' चयमुपगच्छन्ति 'उपचीयन्ते' उपचयमुपगच्छन्ति, एतत् पुद्गलापेक्षं विशेषणं, पुद्गलानामेव चयोपचयधर्मकत्वात् , शाश्वतानि भदन्त ! 'विमानानि द्रव्यार्थतया प्रज्ञप्तानि?, वर्णपर्यायै रसपर्यायैर्गन्धपर्यायैः स्पर्शपर्यायैरशाश्वतानि प्रज्ञप्तानि, एवं निरन्तरं ताबद्वक्तव्यं यावदनुत्तरविमानानि ॥ 'सोहम्मीसाणेसु णं भंते!' इत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कुतो योनेरुद्धृत्योत्पद्यन्ते ? किं नैरयिकेभ्यः ? इत्यादि यथा 'व्युत्क्रान्ती' व्युत्क्रान्त्याख्ये षष्ठे पदे प्रज्ञापनायां तथा वक्तव्यं यावदनुचरोपपातिका देवाः, इह तु ग्रन्थगौरवश्याम लिख्यते भूयान हि स प्रन्थः । सम्प्रति कियन्त एकस्मिन् समये उत्पद्यन्ते? इति निरूपणार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एकस्मिन् समये, सूत्रे तृतीया सप्तम्यर्थे प्राकृतत्वात् , कियन्त उत्पद्यन्ते ?, भगवानाह, |-गौतम! जघन्येन एको द्वौ वा त्रयो वा, उत्कर्षत: सङ्ख्येया वाऽसङ्ख्येया वा तिरश्चामपि गर्भजपञ्चेन्द्रियाणां तत्रोत्पादात्, एवं तावद्वक्तव्यं यावत्सहस्रारकल्पः, 'आणयदेवा णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनैको द्वौ त्रयो वा उत्कर्षतः सङ्ख्येयाः, मनुष्याणामेव तत्रोत्पादात् , तेषां कोटीकोटीप्रमाणत्वात् , एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति कालतोऽपहारतः परिमाणमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोदेवाः समये समये एकैकदेवापहारेणापहियमाणा अपहियमाणा: कियता कालेनापडियन्ते ?, भगवानाह-गौतम! असङ्ख्येयास्ते देवाः समये समये एकैकदेवापहारेणापहियमाणा: २ असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, एतावता किमुक्तं भवति ?-असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावत्प्रमाणा: सौधर्मेशानदेवा इति, एवमुत्तरत्रापि भावना भावनीया, एतच्च कल्पनामात्रं परिमाणावधारणार्थमुक्तं न पुनस्ते कदाच-|
-AAAAAGARIKAARAKALAM
Jain Education Inte
For Private & Personel Use Only
Mainelibrary.org