SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ हामेधास्ते यस्य वशे सन्ति स मघवान् , पाको नाम बलवान् रिपुः स शिष्यते-निराक्रियते येन स पाकशासनः, दक्षिणार्द्धलोकाधिपतिः मेरोदक्षिणत: सर्वस्यापि तदाभाव्यत्वात् , द्वात्रिंशद्विमानावासशतसहस्राधिपतिः, सौधमें कल्पे एतावतां विमानापासशतसहसाणां भावात् , ऐरावणवाहनः, ऐरावणनाम्रो गजपतेस्तद्वाहनस्य भावात् , सुरेन्द्रः सौधर्मवासिनां सुराणां सर्वेषामपि तदाशावतित्वात, 'अरयंबरवत्थधरे' इति अरजांसि-रजोरहितानि स्वच्छतया अम्बरवद् अम्बराणि वखाणि धारयतीति अरजोऽम्बरवस्त्र|धरः, 'आलइयमालमउडे' इति माला च मुकुटश्च मालामुकुटं आलिङ्गितं-आविद्धं मालामुकुटं येन स नालिङ्गितमालामुकुटः, कतकण्ठेमाल आविद्धशिरसिमुकुट इति भावः, 'नवहेमचारुचित्तचंचलकुण्डलविलिहिजमाणगंडे' नवमिव-प्रत्यप्रमिव हेम यत्र न नवहेमनी नवहेमभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा, 'महि दिए जाव दसदिसाओ उज्जोवेमाणे पभासेमाणे' अत्र यावत्करणात् 'महजईए महाबले महायसे' इत्यादि पूर्वोक्तपरिग्रहः, सौधर्म कल्पे सौधर्मावतंसके विमाने सभायां सुधर्मायां शक्रे सिंहासने ‘से णं तत्थ बत्तीसाए' इत्यादि स तत्र द्वात्रिंशतो विमानावासशतसहस्राणां चतुरशीतेः सामानिकसहस्राणां त्रयविंशतस्त्रायस्त्रिंशकानां चतुणी लोकपालानामष्टानामप्रमहिषीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां चतमृणां चतुरशीतीनामात्मरक्षदेवसहस्राणां अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां ऐबी |च 'आहेवचं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरई' अत्र यावत्करणात् 'पोरेवच्चं सामित्तं भट्टित्त'मित्यादि परिग्रहः ।। सक्कस्स णं भंते! देविंदस्स देवरन्नो कति परिसाओ पन्नत्ताओ?, गोयमा! तओ परिसाओ पण्णत्ताओ, तंजहा-समिता चंडा जाता, अभितरिया समिया मज्झिमिया चंडा बाहिरिया जाता Jan Education For Private & Personel Use Only A ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy