________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ३७९ ॥
Jain Education Inter
शिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाच भियादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिपु तैश्चित्रं विकसितशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रम्, 'अंतो बहिं च सण्हे' इत्यादि अञ्जनपर्वतोपरिसिद्धायतनद्वारवत्, 'एवं सूरविमाणेवी' त्यादि, एवं - चन्द्रविमानमिव सूर्यविमानमपि वक्तव्यं प्रहविमानमपि नक्षत्रविमानमपि ताराविमानमपि, ज्योतिर्बिमानानां प्राय एकरूपत्वात् ॥ 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमानं भदन्त ! कियदायामविष्कम्भेन कियत्परिक्षेपेण कियद्वाहल्येन प्रज्ञप्तम् ?, भगवानाह - गौतम ! षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भेन, | तदेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेण, अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येन प्रज्ञप्तम् ॥ ' सूरविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत् भगवानाह - गौतम ! अष्टचत्वारिंशत मे कषष्टिभागान् योजनस्यायामविष्कम्भेन, तदेवायामविष्कम्भमानं त्रिगुणं सविशेषं परिक्षेपेण, चतुर्विंशतिमेकषष्टिभागान् योजनस्य बाहुल्येन || 'गहविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम ! अर्द्धयोजनमायामविष्कम्भेन तदेवार्द्धयोजनं त्रिगुणं सविशेषं परिक्षेपेण क्रोशं बाहल्येन || 'नक्खत्तविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम ! क्रोशमेकमायामविष्कम्भेन तदेवायामविष्कम्भपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण अर्द्धक्रोशं च बाहल्येन प्रज्ञप्तम् ॥ 'ताराविमाणे णं भंते!' इत्यादि प्रश्नसूत्रं तथैव, भगवानाह - गौतम ! अर्द्धक्रोशमायामवि - ष्कम्भेन तदेवायामविष्कम्भायामपरिमाणं त्रिगुणं सविशेषं परिक्षेपेण, पञ्चधनुः शतानि बाहल्येन प्रज्ञप्तम्, एवं परिमाणं च तारा| विमानमुत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धि द्रष्टव्यं जघन्यस्थितिकस्य तु पश्वधनुः शतान्यायासविष्कम्भेन अर्द्धतृतीयानि धनुःशतानि बाहल्येन, उक्तञ्च तत्त्वार्थ भाष्ये - " अष्टचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत्, महा
For Private & Personal Use Only
३ प्रतिपत्तौ चन्द्रादिसंस्थाना
यामादि
उद्देशः २
सू० १९७
॥ ३७९ ॥
ainelibrary.org