SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ जी० ६४ Jain Education Intern यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरमुक्तम् — “अद्धकविट्ठागारा उदयत्थमणमि कह न दीसंति । स| सिसूराण विमाणा तिरियक्खेत्ते ठियाणं च १ ॥ १ ॥ उत्ताणद्धकविट्ठागारं पीढं तदुवरिं च पासाओ । वट्टालेखेण ततो समबद्धं दूरभावातो ॥ २ ॥” तथा सर्वे - निरवशेषं स्फटिकविशेषमणिमयं सर्वस्फटिकमयं तथाऽभ्युद्गता - आभिमुख्येन सर्वतो विनिर्गता उ| त्सृताः - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सितं अभ्युद्गतोत्सृतप्रभासितं यावत्करणात् 'विविहमणिरयणभत्तिचित्ते वा - उद्धयविजयवेजयन्ती पडागछत्तातिछत्तकलिए ढुंगे गगणतलमणुलिहंत सिहरे जालंतररयणपंज लोम्मीलियमणिकणगधूभियागे वियसि - यसयवत्तपुंडरीयतिलगरयणद्धचंद चित्ते अंतो वहिं च सण्हे तवणिज्जवालुयापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिजे अभिरूवे पडिरू' इति, तत्र विविधा - अनेकप्रकारा मणयः - चन्द्रकान्तादयो रत्नानि च - कर्केतनादीनि तेषां भक्तयो - विच्छित्तिविशेषास्ताभिश्चित्रं - अनेकरूपवद् आश्चर्यवद्वा विविधमणिरत्नभक्तिचित्रं, तथा वातोद्भूता - वायुकम्पिता विजय: - अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधानाः पताका विजयवैजयन्त्यः, अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः| पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिच्छत्राणि - उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्धूतविजयवेजयन्ती पताका कलितं तु-उच्चम् अत एव 'गगणतलमणुलितसिहरं' गगनतलमनुलिखद्-अभिलङ्घयद् गगनतलानु लिखच्छिखरं, तथा जालानि - जालकानि | तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तज्जालान्तररनं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जराद् उन्मीलितमिव - बहिष्कृतमित्र पञ्जरोन्मीलितमिव यथा हि किल किमपि वस्तु पञ्जराद् - वंशादिमयप्रच्छादनविशेषाद् वहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते तथा तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका For Private & Personal Use Only 4 anelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy