________________
रूपान्नवर्ति योजनान्यबाधया कृत्वा चन्द्रविमानं तत एवाधस्तनात्तारारूपादशोत्तरं योजनशतमबाधया कृत्वोपरितनं तारारूपं ज्योतिष चारं चरति ॥ 'सरविमाणाओ णं भंते!' इत्यादि, सूर्यविमानाद् भदन्त ! कियवाधया कृत्वा चन्द्रविमानं चारं चरति ?. कियबाधयोपरितनं तारारूपम् ?, भगवानाह-गौतम! अशीति योजनान्यबाधया कृत्वा चन्द्रविमानं चारं चरति, तत एव सूर्यविमाना
द्योजनशतमबाधया कृत्वोपरितनं तारारूपम् ॥ 'चंदविमाणाओ णं भंते!' इत्यादि, चन्द्रविमानाद्भदन्त ! कियबाधया कृत्वोपरिहै तनं तारारूपं चारं चरति ?, भगवानाह-गौतम! विंशतियोजनान्यबाधया कृत्वोपरितनं तारारूपं चारं चरति ॥ 'जंबूदीवेणं
भंते !' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कतरत् , 'बहूनां प्रश्ने डतमश्चेति बहूनामपि निर्धयें उतरः, नक्षत्रं सर्वाभ्यन्तरं-सर्वेषामन्येषां नक्षत्राणामभ्यन्तरं 'चार' मण्डलगत्या परिभ्रमणं चरति ?, कतरत् नक्षत्रं 'सर्वबाह्य' सर्वेषां नक्षत्राणां बहिर्वतिनं चारं 'चरति' प्रतिपद्यते ?, कतरत् नक्षत्रं 'सर्वोपरितन' सर्वेषां नक्षत्राणामुपरितनं चारं चरति ?, कतरत् नक्षत्रं सर्वाधस्तनं चारं चरति ?, भगवानाह-गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, मूलः पुनर्नक्षत्रं सर्वबाह्यं चारं चरति, स्वातिर्नक्षत्रं सर्वोपरितनं चारं चरति, भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, उक्तञ्च-सव्वाभितरऽभीई मूलो पुण सव्वबाहिरो होइ । सव्वोवरिं तु साई भरणी पुण सव्वहेट्ठिलिया ॥ १॥"
चंदविमाणे णं भंते ! किंसंठिते पण्णत्ते?, गोयमा! अद्धकचिट्टगसंठाणसंठिते सव्वफालितामए अन्भुगतमूसितपहसिते वण्णओ, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि अद्धकविट्ठसंठाणसंठिते ॥ चंदविमाणे णं भंते! केवतियं आयामविक्खंभेणं? केवतियं परिक्खेवेणं?
lain Education
For Private
Personel Use Only
L
aw.jainelibrary.org