SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ॥ ३७७ ॥ Jain Education Inte इनक्खते सव्वभितरिल्लं चारं चरति मूले णक्खते सव्वबाहिरिल्लं चारं चरइ साती णक्खत्ते सव्वोवरिल्लं चारं चरति भरणीणक्खन्ते सव्हेट्ठिल्लं चारं चरति ॥ ( सू० १९६ ) 'जंबूदीवे ण' मित्यादि' जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य सकलतिर्यग्लोकमध्यवर्त्तिनं कियत्क्षेत्रमवाधया सर्वतः कृत्वा 'ज्योतिषं ' ज्योतिश्चक्रं 'चारं चरति' मण्डलगत्या परिभ्रमति ?, भगवानाह - गौतम ! एकादश योजनशतानि 'एकविंशानि ' एकविंशत्यधिकानि अबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ? - मेरो : सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चक्रवालतथा ज्योतिश्चक्रं चारं चरति । 'लोगंताओ णं भंते!' इत्यादि, लोकान्तादवग् णमिति वाक्यालङ्कारे भदन्त ! कियत्क्षेत्रमबाधया अपान्तराले कृत्वा ज्योतिषं प्रज्ञप्तम् ?, भगवानाह - गौतम ! एकादश योजनशतानि 'एकादशानि' एकादशोत्तराण्यबाधया कृत्वा ज्योतिषं प्रज्ञप्तम् || 'इमीसे णं भंते!' इत्यादि, 'अस्यां यत्र वयं व्यवस्थिता रत्नप्रभायां पृथिव्यां बहुसमरमणीयात् भूमिभागात् आरभ्य कियद्वाधया कृत्वाऽधस्तनं तारारूपं ज्योतिषं चारं चरति ?, कियदवाधया कृत्वा सूर्यविमानं चारं चरति ?, कियदबाधया कृत्वा चन्द्रविमानं कियदबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति ?, भगवानाह - गौतम! सप्त योजनशतानि नवत्यधिकान्यबाधया कृत्वाऽधस्तनं तारारूपं चारं चरति, अष्ट योजनशतान्यबाधया कृत्वा सूर्यविमानं, अष्टौ योजनशतान्यशीतान्यबाधया कृत्वा चन्द्रविमानं, नव योजनशतानि पूर्णान्यबाधया कृत्वोपरितनं तारारूपं ज्योतिषं चारं चरति || ' (सन्ध) हेहिलाओ णं भंते !" इत्यादि, अधस्तनाद् भदन्त ! तारारूपात् कियदबाधया कृत्वा सूर्यविमानं चारं चरति ? कियदवाधया कृत्वा चन्द्रविमानं चारं चरति ? कियदबाधयोपरितनं तारारूपम् ?, भगवानाह - गौतम! दश योजनान्यवाधया कृत्वा सूर्यविमानं चारं चरति, तत एवाधस्तनात्तारा For Private & Personal Use Only ३ प्रतिपत्तौ अन्तर्वाह्योपर्यधस्तनास्ता राः उद्देशः २ सू० १९६ ॥ ३७७ ॥ jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy