________________
देवाश्चातुर्मासिकेषु पर्युषणायामन्येषु च बहुपु जिनजन्मनिष्क्रमणज्ञानोत्पादपरिनिर्वाणादिषु देवकार्येषु देवसमितिषु, एतदेव पर्याय-161 द्वयेन व्याचष्टे-देवसमवायेषु देवसमुदायेषु आगताः प्रमुदितप्रक्रीडिता अष्टाहिकारूपा महामहिमाः कुर्वन्तः सुखंसुखेन 'विहरन्तिा आसते । अदुत्तरं च णं गोयमा!' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे द्वीपे चक्रवालविष्कम्भेन बहुमध्यदेशभागे चतसृषु विदिक्षु एकैकस्यां विदिशि एकैकभावेन चत्वारो रतिकरपर्वता: प्रज्ञप्तास्तद्यथा-एक उत्तरपूर्वस्यां द्वितीयो दक्षिणपूर्वस्यां तृतीयो दक्षिणापरस्यां चतुर्थ उत्तरापरस्याम् ॥ 'ते ण'मित्यादि, ते रतिकरपर्वता दश योजनसहस्राण्यूद्धमुच्चैस्त्वेन एकं योजनसहस्रमद्वेधेन सर्वत्रसमा झल्लरीसंस्थानसंस्थिता दश योजनसहस्राणि विष्कम्भेन एकत्रिंशद् योजनसहस्राणि पवयोविंशानि योजनशतानि परिपेण | सर्वात्मना रत्नमया अच्छा यावत्प्रतिरूपाः, तत्र योऽसावुत्तरपूर्वो रतिकरपर्वतस्तस्य 'चतुर्दिशि' चतुर्दिक्षु एकैकस्यां दिशि एकैकराजधानीभावेन ईशानस्य देवेन्द्रस्य देवराजस्य चतमृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि नन्दोत्तरा दक्षिणस्यां नन्दा पश्चिमायामुत्तरकुरा उत्तरस्यां देवकुरा, तत्र कृष्णाया:-कृष्णनामिकाया अग्रमहिष्या नन्दोत्तरा कृष्णराज्या नन्दा रामाया उत्तरकुरा रामरक्षिताया देवकुरा, तत्र योऽसौ दक्षिणपूर्वो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमाणाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि सुमनाः दक्षिणस्यां सौमनसा अपरस्याम| चिौली उत्तरस्यां मनोरमा, तन 'पद्माया' पद्मनामिकाया अग्रमहिष्या सुमना: शिवाया: सौमनसा शच्याश्वाचिर्माली अञ्जुकाया 8/मनोरमा, तत्र योऽसौ दक्षिणपश्चिमो रतिकरपर्वतस्तस्य चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतसृणामग्रमहिषीणां जम्बूद्वीपप्रमा
णाश्चतस्रो राजधान्यः प्रज्ञप्तास्तद्यथा-पूर्वस्यां दिशि भूता दक्षिणस्यां भूतावतंसा अपरस्यां गोस्तूपा उत्तरस्यां सुदर्शना, तत्र 'अम
%AC-%CASNACHCARENER-CA
Jain Education Inte
For Private & Personel Use Only
inelibrary.org