________________
हद्धखभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थितौ च पयोधरौ यासां ताः तथा 'लूसेमाणीओ इवेति मुष्णन्त्य । हाइव सुरजनानां मनांसीति गम्यते, शेषं प्रायः प्रतीतं, प्रागेवानेकशो भावितत्वात् । 'तेसि णं दाराणमुप्पिमित्यादि तेषां द्वाराणामुपरि
प्रत्येकं प्रत्येकमष्टावष्टौ मङ्गलकानि स्वस्तिकादीनि प्रज्ञप्रानि सर्वरत्रमयानि अच्छानि यावत्प्रतिरूपकाणि ॥ 'तेसिणं दाराण'मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डपा: प्रज्ञमाः, 'ते णमित्यादि, ते मुखमण्डपा एकं योजनशतमायामेन पञ्चाशद्
योजनानि विष्कम्भेन सातिरेकाणि पोडश योजनानि ऊर्द्ध मुच्चैस्त्वेन अनेकस्तम्भशतसन्निविष्टा इत्यादि विजयदेवसुधर्मासभाया इव वर्णनं १ *तावद्वक्तव्यं यावत्प्रतिरूपा ॥ 'तेसि ण'मित्यादि, तेषां मुखमण्डपानां प्रत्येक प्रत्येकं 'चतुर्दित्रिदिशि' चत [ति] मृपु दिक्षु एकैकस्यां दिशि
| एकैकभावेन चत्वारि [त्रीणि] द्वाराणि प्रज्ञप्तानि । 'ते णं दारा इत्यादि, तानि द्वाराणि पोडश योजनानि ऊर्द्ध मुच्चैस्त्वेन अष्टौ योजसानानि विष्कम्भेन 'तावइयं चैव' अष्टावेव योजनानि प्रवेशेन 'सेया वरकणगथभियागा' इति द्वारवर्णनं प्राग्वत्तावद्वक्तव्यं यावदुपर्य-18 ष्टावष्टौ मङ्गलकानि-स्वस्तिकादीनि, तेषामुल्लोचवर्णनं प्राग्वत् , तेषां च मुखमण्डपानामुपरि प्रत्येक प्रत्येकमष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि सर्वरत्नमयानि अच्छानि यावत्प्रतिरूपकाणि, बहवः कृष्णचामरध्वजा इत्यादि प्राग्वद् यावद् बहवः सहस्रपत्रहस्तका इति ॥ 'तेसि णमित्यादि, तेषां मुखमण्डपानां पुरतः प्रत्येक प्रत्येक प्रेक्षागृहमण्डपा: प्रन्नप्ता: तेऽपि मुखमण्डपवत्प्रमाणतो वक्तव्याः, | तेषामप्युल्लोचवर्णनं भूमिभागवर्णनं च प्राग्वत् । तेषां बहसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येकमझपाटका: हाप्रज्ञप्ताः ॥ 'ते णमित्यादि, ते अक्षपाटका वनमया: 'अच्छा जाव पडिरूवा' इति प्राग्वन् ॥ 'तेसि ण'मित्यादि, तेषामक्षपाट
कानां बहुमध्यदेशभागे प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योज
Jain Education Inte
?
For Private Personel Use Only
Jainelibrary.org