________________
Jain Education Inter
तथा चाह - 'से एएणट्टेण' मित्याद्युपसंहारवाक्यं गतार्थ || सम्प्रत्येतावानेव मनुष्यलोकोऽत्रैव च वर्षवर्षधरादय इत्येतत्सूत्रं प्रतिपादयितुकाम आह— 'जावं च ण' मित्यादि, यावदयं मानुषोत्तरपर्वतस्तावत् 'अस्सिलोए' इति अयं मानुषलोक इति प्रोच्यते न परतः, तथा यावद्वर्षाणि - भरतादीनि क्षेत्राणीति वा वर्षधरपर्वता - हिमवदादद्य इति वा तावदयं मनुष्यलोक इति प्रोच्यते न परतः, एतावता किमुक्तं भवति ? - वर्षाणि वर्षधरपर्वताश्च मनुष्यलोक एव नान्यत्रेति, एवमुत्तरत्रापि भावनीयं, तथा यावद्गृहाणीति वा गृहापतनानीति वा तत्र गृहाणि प्रतीतानि गृहापतनानीति-गृहेष्वागमनानि तावदयं मनुष्यलोकः प्रोच्यते गृहाणि गृहापतनानि वाऽस्मिन्नेव मनुष्यलोके नान्यत्रेति भाव:, तथा प्रामा इति वा नकराणीति वा यावत्सन्निवेशा इति वा, यावत्करणात् खेटकर्बटादिपरिग्रहस्तावदयं मनुष्यलोक इति प्रोच्यते, अत्रापि भावार्थ: प्राग्वत्, तथा यावदन्तश्चक्रवर्त्तिनो बलदेवा वासुदेवाश्चारणा-जङ्घाचारणविद्याधराः 'श्रमणाः' साधवः 'श्रमण्यः संयत्यः श्रावकाः श्राविकाश्च तथा मनुष्याः प्रकृतिभद्रका इत्यादि यावद्विनीतास्तावदयं मनुष्यलोक इति प्रोच्यते, अर्हदादीनामत्रैव भावो नान्यत्रेति भावार्थः । तथा यावदुदारा बलाहका - मेघाः संस्विद्यन्ते संमूर्च्छन्ति वर्षी वर्षन्ति, अस्य व्याख्यानं प्राग्वत् तावदयं मनुष्यलोक इति प्रोच्यते, मेघानामपि वर्षुकाणामत्रैव भावो नान्यत्रेति भावार्थ:, तथा यावत् ' बादरः' गुरुतरः 'स्तनितशब्द:' गर्जितशब्द इति, 'बादरो विद्युत्कार इति वा' बादरा - अतिबलतरा विद्युत् तावदयं मनुष्यलोक इति प्रोच्यते, तथा यावदयं वादोऽग्निकायिकस्तावदयं मनुष्यलोक इति प्रोच्यते, बादराग्निकायिकस्यापि मनुष्यलोकात्परतोऽसम्भवात्, तथा यावदाकरा इति वा आकरा - हिरण्याकरादयः, नय इति वा निधय इति वा तावदयं मनुष्यलोक इति प्रोच्यते, तेषामपि मनुष्य क्षेत्रादन्यत्रास - म्भवात् तथा यावत्समया इति वा, समय:- परमनिरुद्धः कालविशेषो यस्याधो विभागः कर्त्तुं न शक्यते, स च सूचिकदारकस्तरुणो
For Private & Personal Use Only
jainelibrary.org