________________
--
-
'माणुसुत्तरे णमित्यादि, मानुषोत्तरो णमिति वाक्यालङ्कारे पर्वतः "कियत्' किंप्रमाणमूर्द्धमुच्चैस्त्वेन ? कियदुद्वेधेन ? कियन्मू-| लविष्कम्भेन ? कियदुपरिविष्कम्भेन ? कियद् 'अन्तर्गिरिपरिरयेण गिरेरन्तः परिक्षेपेण ? कियद् 'वहिगिरिपरिरयेण गिरेवहि:
परिच्छेदेन ? कियत् 'मूलगिरिपरिरयेण ?' गिरेर्मूले परिरयेण, एवं कियन्मध्यगिरिपरिरयेण ?, एवं कियदुपरिगिरिपरिरयेण प्र-४ हज्ञप्तः ?, भगवानाह-गौतम! सप्तदश योजनशतानि एकविंशानि ऊर्द्ध मुच्चैस्त्वेन १७२१, चत्वारि त्रिंशानि योजनशतानि क्रोशमेक
च 'उद्वेधेन' उण्डत्वेन ४३०, मूले दश द्वाविंशत्युत्तराणि योजनशतानि विष्कम्भेन १०२२, मध्ये सप्त त्रयोविंशत्युत्तराणि योज-IN नशतानि विष्कम्भतः ७२३, उपरि चत्वारि चतुर्विशत्युत्तराणि योजनशतानि विष्कम्भेन ४२४, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे एकोनपञ्चाशदधिके योजनशते किञ्चिद्विशेषाधिके अन्तर्गिरिपरिरयेण १४२३०२४९, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि पत्रिंशत्सहस्राणि सप्त चतुर्दशोत्तराणि योजनशतानि बहिगिरिपरिरयेण १४२३६७१४, एका योजनकोटी द्वाचत्वारिंशत् शतसहस्राणि चतुर्विंशत्सहस्राणि अष्टौ त्रयोविंशत्युत्तराणि योजनशतानि मध्यगिरिपरिरयेण १४२३४८२३, |एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि द्वात्रिंशत्सहस्राणि नत्र च द्वात्रिंशदुत्तराणि योजनशतानि उपरिगिरिपरिरयेण १४२३| २९३२, इदं च मध्ये उपरि च गिरिपरिरयपरिमाणं बहिर्भागापेक्षमवसातव्यं, अभ्यन्तरं छिन्नटङ्कतया मूले मध्ये उपरि च सर्वत्र
| तुल्यपरिरयपरिमाणत्वात् , मूले विस्तीर्णोऽतिपृथुत्वात् , मध्ये संक्षिप्तो मध्यविस्तारत्वात् , उपरि तनुकः स्तोकबाहल्यभावात् , अन्त: लालक्ष्णो मृष्ट इत्यर्थः मध्ये 'उदग्रः' प्रधान: बहिः 'दर्शनीयः' नयनमनोहारी 'ईषत्' मनाक् सन्निषण्णः सिंहनिषीदनेन निषीदनात् ,*
तथा चाह-'सिंहनिषादी सिंहबन्निपीदतीत्येवंशीलः सिंह निषादी, यथा सिंहोऽप्रेतनं पादयुगलमुत्तम्य पश्चात्तनं तु पादयुग्मं स
CACHEMOCROSX---
जी० ५८
Jain Education
a
l
For Private Personal use only
w.jainelibrary.org