SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ NAGARIGOLCANOCOMSAX राण' मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेन, एकचत्वारिंशत् योजनशतसहस्राणि भादश सहस्राणि नव च एकपष्टानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, उक्तश्च–'एयालीसं लक्खा दस य सहस्साणि जोयणाणं तु । नव य सया एगट्टा किंचूणा परिरओ तस्स ॥ ३॥" 'से णमित्यादि, स धातकीखण्डो द्वीप एकया पद्मवरवेदिकया | अष्ठयोजनोच्छ्रयजगत्युपरिभाविन्येति सामर्थ्याद्गम्यते, एकेन वनपण्डेन पावरवेदिकाबहिर्भूतेन सर्वतः समन्तात्संपरिक्षिप्तः । द्वयोरपि वर्णकः प्राग्वत् ॥ 'धायइसंडस्स ण'मित्यादि, धातकीपण्डस्य भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञमानि ?, भगवानाह-गौतम ! | चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥ 'कहि णं भंते!' इत्यादि, क भदन्त ! धातकीपण्डस्य | द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम! धातकीपण्डस्य द्वीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीताया महानद्या उपरि 'अत्र' एतस्मिन्नन्तरे धातकीपण्डस्य द्वीपस्य विजयनाम द्वारं प्रज्ञतं, तञ्च जम्बूद्वीपविजयद्वारबदविशेषेण वेदितव्यं, | नवरमत्र राजधानी अन्यस्मिन धातकीपण्डे द्वीपे वक्तव्या । 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! धातकीपण्डद्वीपदक्षिणपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्योत्तरतोऽत्र धातकीपण्डस्य द्वीपस्य वैजयन्तं नाम द्वारं प्रज्ञतं, तदपि जम्बूद्वीपवैजयन्त द्वारबदविशेपेण वक्तव्यं, नबरमत्रापि राजधानी अन्यस्मिन् धातकीपण्डद्वीपे ।। 'कहि णं भंते !' इत्यादि प्रश्नसूत्रं गतार्थ, भगवानाहद गौतम ! धातकीपण्डद्वीपपश्चिमपर्यन्ते कालोदसमुद्रपश्चिमार्द्धस्य पूर्वत: शीतोदाया महानद्या उपर्यत्र धातकीपण्डस्य द्वीपस्य जयन्त | नाम द्वारं प्रज्ञप्त, तदपि जम्बूद्वीपजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् धातकीपण्डे द्वीपे । 'कहि णं भंते !' इत्यादि, हा प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! धातकीपण्डद्वीपोत्तरार्द्धपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्य दक्षिणतोऽत्र धातकीषण्डस्य द्वीपस्यापरा Jain Education initial For Private & Personel Use Only ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy