________________
श्रीजीवा-बानू, सुपमसुषमादिकमधिकृत्याह - मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमान माया लोभाः मृदुमादेवसंपन्ना आलीना भद्रका वि जीवाभि० ★ नीताः एतेषां व्याख्यानं प्राग्वत्, तेषां 'प्रणिधया' प्रणिधानं प्रणिधा, 'उपसर्गादात' इत्यङ्प्रत्ययः तान् प्रणिधाय' अपेक्ष्य तेषां मलयगि प्रभावत इत्यर्थः, लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि, दुष्पमदुष्पमादावपि नावपीडयति, भरतवैताच्याद्यधिपतिदेवताप्रयावृत्तिः भावात्, तथा क्षुद्धहिमवच्छिखरिणोर्वधरपर्वत योदेवता महर्द्धिका यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां 'प्रणि४ धया' प्रभावेन लवणसमुद्रो जम्बूद्वीपं द्वीपं नावपीडयतीत्यादि । तथा हैमवत हैरण्यवतोर्वर्षयोर्मनुजाः प्रकृतिभद्रका यावद् विनीता - ॥ ३२६ ॥!! ४ स्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोयों यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढ्यौ पर्वतौ तयोर्देवो महर्द्धिको यात्र उत्पल्योपमस्थितिको परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा महाहिमवदुक्मिवर्षवरपर्वतयोर्देवता महर्द्धिका इत्यादि तथैव । तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्व हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यो वृत्तवैताच्य पर्वतौ तयोर्देवो महर्द्धिकावित्यादि पूर्ववत् । तथा पूर्वविदेहापर विदेवर्षयोरर्हन्तश्चक्रवर्त्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद् विनीता - स्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा देवकुरुरुत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा उत्तरकुरुषु कुरुपु जम्ब्वां सुदर्शनायामनादृतो नाम देवो जम्बूद्वीपाधिपतिः परिवसति तस्य 'प्रणिधया' प्रभावेनेत्यादि तथैव । अथान्यद् गौतम ! कारणं, तदेवाह -लोकस्थितिरेपा - लोकानुभाव एष यलवणसमुद्रो जम्बूद्वीपं द्वीपं जलेन नावपीडयतीत्यादि ॥ तृतीयप्रतिपत्तावेष मन्दरोद्देशकः समाप्तः ॥ तदेवमुक्ता लवणसमुद्रवक्तव्यता, सम्प्रति धातकीपण्डवक्तव्यतामाह
लवणसमुदं धायइसंडे नाम दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समता संपरिक्खिवित्ता
Jain Education
onal
For Private & Personal Use Only
३ प्रतिपत्तौ
लवणस
मुद्राधि०
उद्देशः २
सू० १७३
।। ३२६ ।।
w.jainelibrary.org